________________
स्वरसंधिमक्रिया ॥२॥ (२३)
लोपशि पुनर्न संधिः। छन्दसि तु भवति । हे सखे इति हे सखेति । हे सखयिति ॥
लोपशीति। लोपशि कृते पुनः पूर्वापरवर्णयोर्मियो घटनरूपः सन्धिः कार्यान्तरसन्धानं च न भवति 'नोतमनित्यम्' इति वापि लोपशि कृतेऽपि सन्धिर्भवति । यद्वा छंदसि तु भवतीति तु शब्दात कुत्रचिल्लौकिकोदाहरणे लोपशि कृतेऽपि सन्धिर्भवतीति यथा दामोदरः, राजाश्या, पञ्चामिः इत्यादि । पुनर्विशेषमाह छन्दसीति । छन्दसि वेदे लोपशि कृतेऽपि सन्धिर्भवति । यथा हे सखेति । सखे इति । ए अय् । बोर्लोपश्चेवि यकारलोपः छान्दसिकत्वान सन्धिनिषेधः तेन भइए । सूत्रम् ।
एदोतोऽतः। । पदान्ते स्थितादेकारादोकाराच परस्याकारस्य लोपो भवति । ते अत्र तेऽत्र । पटो अत्र पटोऽत्र सर्वविधियो लोपविधिर्बलवान । एदोतोऽवः । एच ओच्च पदोत(प.ए.) स्वरसो एदोतः अग्ने अतःमध्ये । अतोत्युः एदोतोतःइत्यकारलोपः । अत् (ष.ए.)स्वरात्रो०। एदोतः अत्र तपरकरणमसन्दे होच्चारणार्थ अतः अत्र तपरकरणं वावन्मात्रग्रहणार्थ । पदान्ते स्थितात् एकारात् ओकारात्परस्याकारस्य लोपो भवति । ते अत्र । पदान्ते स्थिती यावकारोकारो ताभ्यां परस्याकारस्य लोपो भवति च । एकपटवासन्यायादखण्डाकारास्ति ष्ठन्ति । एवं पो अन पोऽत्र । अत्र 'सामान्पशास्त्रतो विशेषो बलवान, इति न्यायोऽङ्गीकर्तव्यस्तेन ए अय् ओ अत् इति न भवति । सूत्रम् ।
हलादेरीषादौ टेलोपो वक्तव्यः । कचित्तदादिवर्णाभावे केवलस्वरस्यापि टिसंज्ञा वक्तव्या । हल ईषा हलीषा । लांगल ईषा लांगलीषा । मनस् ईषा मनीषा। शक अन्धुः शकन्धुः कर्क अन्धुः कर्कन्धुःसीमन . अन्तः सीमन्तः केशवेशे । अन्यत्र सीमान्तः । कुल अटा कुलटा । पतत् अञ्जलिः पतञ्जलिः।सार अङ्गः सारङ्गः पशुपक्षिणोः। अन्यत्र साराङ्गः ॥