________________
(२१)
सारस्वते प्रथमवृचौ। स्वरे परे सति यत्कार्यं भवति तत् यकारे परेऽपि भवतीत्यर्थः । यथा अध्धपरि माणे मार्गपरिमाणे वाच्ये सति गो+यूतिः अत्र यकारस्य स्वरवत्त्वात्। ओ अत् । स्वर० । गव्यूतिः क्रोशद्वयं । अन्यत्र तु गवां मिश्रीभाव एकीभावो गोयूतिरित्येव तिष्ठतीति सिद्धम् । एवं पितृ +यं पित्र्यं इत्यपि ज्ञेयम् ।
- ऐ आय। ऐकार आय् भवति स्वरे परे । नै अकः नायकः । ऐ आय । ऐ (म. ए.) साङ्केविकम् । आय (म. ए.) हसेपः । ऐकार आय भवति स्वरे परे । नै +अकः । ऐ आय । स्वर०। नायकः । सूत्रम् ।
औ आत् । औकार आव् भवति स्वरे परे । तो इह ताविह। औ आव । औ (-म. ए.) साङ्के । आव (म. ए.) हसेपः । ओकार आव भववि स्वरे परे । नौ + इह । औ आ । स्वर । वाविहेति सिद्धम् । सूत्रम् ।
वोर्लोपश् वा पदान्ते। पदान्ते स्थितानामयादीनां यकारवकारयोलौपश् वा भवति। ते आगताःत आगताः। तयागताः। पटोइह पट इह पटविह । तस्मै आसनं। तस्मा आसनम् । तस्मायासनम् । असौ इन्दुः । असा इन्दुः असाविन्दुः।
वोर्लोपश् वा पदान्ते । य च व् च य्वौ तयोः वोः (प.द्वि०) स्वर० स्रो० लोपश (म. ए.) हसेपः । वा (प.ए.) अव्यया० पदान्ते (स. ए.) अइए। मिद्धं । पदान्ते आदिशब्दार 'ए अय्' 'ऐ आय" ओ अ औ आय ' एभिः सूत्र जीतानां अयादीनां संबन्धिनोर्यकारवकारयोर्वा लोप भवति । ते+आगताः । उभयत्रापि ए अयू एकत्र यकारलोपः। अन्यत्र स्वरात आगतः। तथागता: । पटो+इह उभयत्रापि। ओ अत् । शेषं माग्वत् । एवं तस्मै+आसनम् तस्मा भासनम् तस्मायासनं । तस्मै+इदं तस्माइदं तस्मायिदम् । असो+इन्दुः। असा इन्दुः । असाविन्दुः । तौ+इमौ ता इमौ ताविमौ । ननु त+आगता इत्यत्र सवण दीर्घः। तथा पट +इह इत्यत्र अइए इति सन्धिः कथं न क्रियते तत्राह!