________________
(२६०)
सारस्वते प्रथमवृत्तौ लोहितादेरिति अनेकखरात् डित् वक्तव्यः । यत्र एकस्वरस्तत्र न डिव । लोहितादेरिमन वैकल्पिकः । तेन लौहित्यम् । लोहितत्वम् । कालस्य भावः कालिमा । लघो वो लधिमा । अणोर्भावः अणिमा। गुर्वादेः इति गुरोर्गरादेशः । गुरोर्भावो गरिमा । वरस्य भावो वरिमा । इमनि लोपः । इमनि प्रत्यये परे वकारस्य लोपो भवति । स्थूलस्य भावः स्थेमा । स्थूलस्य स्थवादेशः।
लोहितादोर्डमन् । लोहिवादि लोहित आदिर्यस्य स लोहितादिस्तस्मात् (पं. ए.) डितिस्पेत्यलोपः स्रो० डिमन् (म. ए.) हसेपः । लोहितादेनांनो भावस्याथै इमन्मत्ययो भवति सच दित्संज्ञकः । परं 'अनेकस्वरात् डिदिति वक्तव्यं ' तेन भूमा इत्यत्र एकस्वरे टिलोपोन । उदा० लोहित, लोहितस्य रक्तस्य भाव इति विग्रहे इमन् प० । डिवाहिलोपः डिति टेः स्वर० (प. ए.) नोपधायाः हसेपः नानो एवं अणोर्भावः अणिमा, तथा लघोर्भावः लघिमा, एवं महतो भावो महिमा रानवत् ।
ऋर इमनि । इमनि प्रत्यये परे हसादे घोकारस्य रो
भवति । टथो वः प्रथिमा । दृढस्य भावो ढिमा । मृदो: आवो नदिमा । भृशस्य भावो भ्रशिमा । कशस्य भावः
क्रशिमा । हसादित्वाभावात् । ऋजोर्भाव ऋजिमा । लघुवाभावात् । कृष्णस्य भावः कृष्णिमा। संयोगपूर्वकत्वान्न लघुः । बहोर्भाव इति विग्रहे
र इमनि । क (प. ए.) साङ्केतिकम् । र (म. ए. ) इमनि (स. ए.) पृथु, मृदु, दृढ, कृश, इत्यादीनां नाम्नां आदेकारस्य इमनि प्रत्यये परे र आदेशो भवति । पृथु पृथोर्भावः इति विग्रहे अनेन स्थाने र मटिलोपः पूर्ववत मथिमा । एवं मृदोर्भावो म्रदिमा । दृढस्य भावो द्रढिमा । कृशस्य भावः ऋशिमा । हसादेलघोश्च ऋकारस्येति व्याख्य, तेन कृष्णिमा ऋजिमा इत्यादी रकारो न भवति । सर्वत्र तद्धिते विकल्पानुवृत्तिरिति लोहितता लोहितत्वं लोहित्यम् । अणुता अणुत्वम् । लघुता लघुत्वम् । पृथुवा पृथुत्वम् । मृदुता मृदुत्वम् । कृशता कृशत्वम्। दृढता दृढत्वम् । इत्याद्यपि भवति । सूत्रम् ।