SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तद्धितप्रक्रिया | (२६९) ऊह्याः । जनानां समूहो जनता । ब्राह्मणस्य भावो ब्राह्मण्यम् । त्वयणन्तं नपुंसकम् । ब्राह्मणस्य भावो ब्राह्मण्यम् । सुमनसो भावः सौमनस्यम् । सुभगस्य भावः सौभाग्यम् । विदुषो भावो वैदुष्यम् । वसोवें उ ॥ कर्मण्यपि अंण वकव्यः । कर्मण्यपीत्यपिशब्दात्साध्वर्थेऽण् तस्य णित्त्वं न । सामनि साधुः सामन्यः । कर्मणि साधुः कर्मण्यः । सभायां साधुः सभ्यः । ब्राह्मणस्येदं कर्म ब्राह्मण्यम् । राज्ञ इदं कर्म राजन्यम्-राज्यम् | नो वा इति टेर्लोपः । अन्यत्रापि य प्रत्ययः । समानस्य वा स इत्यादेशः । समाने उदरे शंधितः समानोदर्यः, सोदर्यः । शतेन क्रीतः शत्यः । 1 I समाहारे ता च । समाहारेऽर्थेऽपि तामत्ययों भवति । चशब्दात् तस्मिन् परे त्रेर्गुणः ता प्रत्ययान्ताश्च आबन्तवदित्यर्थः । क्वचित्तु समाहारे तश्च इति पश्चादावतः । त्रि, त्रयाणां समाहारस्त्रेता अत्र ताप्रत्यये कृते गुणः (म. ए. ) आप इति सेर्लोपः । जन, जनानां समाहारो जनता । एवं त्वमत्यये ब्राह्मणस्य भावो ब्राह्मणत्वम् । यण् प्रत्यये ब्राह्मण्यं (म. ए. ) अतोऽम् । सुमनस्, सुमनसो भावः सौमनस्य अत्र द्रव्यं पण वृद्धिः सौ स्वर अतोऽम् सुभग, सुभगस्य भावः सौभाग्यं अत्र यण्प्रत्यये कचिद्वयोरिति सुभग इत्येतयोर्द्वयोर्वृद्धिः यस्यलोपः स्वर० (प्र., ए-> भतोऽम् । विद्वस्, विदुषो भावों वैदुष्यम् । अत्र क्रिया । अत्र यण् वृद्धिः वै । वसोर्व उ० क्विकलात्षःसः सस्य षः स्वर० कुलवत् । एवं विद्वत्ता विद्वच्वम् । वसां रसे खसेचपा० स्वर० सर्वत्र तद्धिते विकल्पानुवृत्तिः । तेन यूनो भावो यौवनं रमणीयस्य भावो रामणीयकम् । वृद्धस्य भावो वार्द्धक्यम् । चपलस्य भावः चापल्यम् । इत्यादी. अण् प्रत्ययोsपि भवति ॥ कर्मण्यपि कर्मार्थेपि यणू प्रत्ययो वक्तव्यः । ब्राह्मणस्य कर्म ब्राह्मण्यं, सुगमम् । राज् राज्ञः इदं कर्म राज्य राजन्यं च उभयत्रापि कर्मणि यण प्र० एकत्र नोवेति टिलोपः । राज् स्वर० अन्यत्र न टिलोपः स्वर० उभयत्रापि (म. ए.) कुलवत् । जातावपि यण् । राज्ञो जातीयः राजन्यः । अपिशब्दात् मुनेः कर्म मौनम् । कर्मणि साधुः कर्मण्यः । सभायां साधुः सभ्यः । यशसे हितं यशस्यम् इत्यादि । सूत्रम् । लोहितादेर्डिमन् । लोहितादेर्गणाद्भावेऽर्थे डिमनप्रत्ययो भवति । डित्त्वाहिलोपः । लोहितस्य भावो. लोहितिमा ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy