SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ (२५८). सारस्वते प्रथमवृत्तौ प्रत्यया भवन्ति । ब्राह्मणस्य भावो ब्राह्मणता । तान्तस्य नित्यं स्त्रीलिङ्गत्वादाप् । भावेतत्त्वयणः। भाव ( स. ए.) अइए तत्वयण तश्च त्वश्च यण्च तत्वयण (म. ब.) स्वर० स्रोः । अथ सूत्रं व्याचिख्यासुः प्रथम भावशब्दं व्याचष्टे । 'शब्दस्य प्रवृचिनिमिचं भावः । येन शब्दस्य प्रवृत्तिः प्रवर्तनं संपद्यते भवति तत् प्रवृत्तिनिमित्तं ततो यच्छब्दस्य ब्राह्मणादेः प्रवृचः कारणं स एव भावः जाति द्रव्यगुणक्रियाभिः शब्दस्य प्रवृचिनिमिचं भाव इत्युच्यते । तस्मिन् भावेऽर्थे त, स्व, यण इत्येते त्रयः प्रत्यया भवन्ति । उदाहरणम् । ब्राह्मण, ब्राह्मणस्य भाव इति विग्रहे अत्र ब्राह्मण इति जातिरूपशब्दस्य यो भावो ब्रह्मज्ञत्वं ब्रह्मणोऽपत्यत्वं यजनादिक्रियानिष्ठत्वं इत्यादिलक्षणःस ब्राह्मणशब्दस्य प्रवृत्तिनिमित्तमतस्तप्रत्ययः । अत्र तप्रत्ययान्तं नाम स्त्रीलिङ्गम् । त्व, यण् इत्येतदन्तं नपुंसकलिङ्गम् । तत्र ता. न्तस्य नित्यं स्त्रीलिङ्गे वर्चमानत्वात् आवतः स्त्रियामित्याप स्त्रीलिङ्गाधिकारात् ।। पुनर्विशेष वक्तव्यनाह। समाहारे ता च त्रेर्गुणश्च । त्रयाणां समाहारस्त्रेता । चकारात्समूहे प्रत्ययान्तरमापि । तेन हस्तिनां समूहो हास्तिकम् । धेनूनां समूहो धैनुकम् । अत्र कप्रत्ययः। तस्य णित्त्वादादिवद्धिः॥ अचित्तवाचकादिकः । कवचानां समूहः कावचिकम् । अपूपानां समूह आपूपिकम् । शष्कुलीनां समूहः शाष्कुलिकम् ॥ कवचिशब्दादिकः । कवचिनां समूहः कावचिकम् ॥ गणिकाया ण्यः । गणिकानां समूहो गाणिक्यम् ॥ केदाराद्यञ् च । चकारादिकः । केदाराणां समूहः कैदार्यम् । कैदारिकम् ॥ युवत्यादेरण् । युवतीनां समूहो यौवतम् । शिक्षाणां समूहो क्षम् ॥ पाशादिभ्योयः । स च स्त्रियाम् । पाशानां समूहः पाश्या । वातानां समूहो वात्या । रथानां समूहा रथ्या। खलानां समूहः खल्या । खलगोरथेभ्य इनित्रकव्याः। खलिनी । रथानां समूहो रथकट्या इत्यपि । गवां समूहो गोत्रा, गव्येत्यादिप्रयोगा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy