________________
तद्धितमकिया।
(२५७) प्रत्ययः वृद्धिः जलतुं० यस्पलोपः स्वर(म. ए.) कुलवत् । चातुर्वर्ण्यम्। चोर। चोर एव चौरः स्वार्थेऽण् यस्यलोपः धृद्धिः । एवं द्वितीय एव द्वैतीयीकः । तृतीय एव वाचीयीका प्रयो लोका एवं त्रैलोक्यं अणनीयोरित्यादि वक्तव्यरूपम् । युष्मदस्मद् इत्येतयोः अण् पत्यये ईनमत्पये च परे तवकादिरादेशो भवति । आदिशब्दादिवचनबहुववनयोर्विषये युष्मदस्मदोः युष्माकास्माको आदेशौ भवतः । तत्र युष्मद एकत्वे अगीनयोः परयोः तवकादेशः । द्वित्वे बहुत्वे च युष्माकः । अस्मदश्च एकत्वे ममकः। द्वित्वे बहुत्वेऽस्माका युष्मद, अस्मद, तव अयं तावकः ममायं मामकः उभपत्रापि इदमर्थे अण् एकस्य तवकः द्वितीयस्य ममकः णित्त्वादादिस्वरस्यति वृद्धिः। पस्यलोपः (म. ए.) स्रो० । पुनः युष्मद् अस्मद् तवायं तावकीनः । ममायं मामकीनः । उभयत्रापि भवाद्यर्थे इति आदिशब्दात् इदमर्थेऽपि ईन म० वृद्धिश्च० यस्य लोपः स्वर सिद्धम् । युष्मद, अस्मद, युवयोः युष्माकं वा अयं यौष्माकः । आवयोः अस्माकं वा अयं आस्माकः । एवं युवयोः युष्माकं वा अयं पौष्माकीणः । आवयोः अस्माकं वा अयं आस्माकीनः। द्वाभ्यां अण, द्वाभ्यां इनः। युष्मदो युष्माक, अस्मदश्व अस्माकः। वृद्धिः यौमाकः आस्माकः सर्वत्र यलोपः। योण्माकीण इत्यत्र अव प्रत्याहारकवर्गपवर्गान्तरत्वात् पुनॊणो० इत्यनेन णत्वम् । सूत्रम् ।
वतुल्ये । तुल्ये साहश्याथै वत् प्रत्ययो भवति । चन्द्रेण तुल्यं चन्द्रवन्मुखम् । घटेन तुल्यं घटवदुदरम् । पढेन तुल्यं पटवत्कम्बलम् ।
वत्तुल्ये । वत् (म. ए.) हसेपः० तुल्ये (स. ए.) सदृशत्वस्यायें उपमानार्थे वाच्ये वत्प्रत्ययो भवति । चन्द्र, चन्द्रेण तुल्यं सदृशं चन्द्रवत् । वत्मत्ययः। क्वावन्तं चेति वत्मत्ययान्तस्य अव्ययसंज्ञा । ततः (प्र. ए.) अव्यया एवं घटेन तुल्यं घटवत् सार्वविभक्तिकाद्वत इत्येके । यथा घटवत् वेणुकरण्डे तिष्ठति, कि निर्मलं नीरं, अत्र घटेवत् घटवत् इति सम्यन्ताद्वत् । गिरिवत्तुङ्गो गज इत्यादौ गुणतुल्यत्वेऽपि वत् । राजेव वर्तते राजवत् । देवमिव भवन्तं पश्यामि देववत् । राज्ञेव व्यवहृतमनेन राजवत् । ब्राह्मणायेव देवदत्ताय ददाति ब्राह्मणवत् । पर्वतादिव आसनादवरोहति पर्वतवत् । ब्राह्मणस्येव वृत्तमस्येति ब्राह्मणवत् । मथुरापामिव पार्यलपुत्रे प्रासादा मथुरावत् । एवं यथाप्रयोग ज्ञेयम् । सूत्रम् ।
भावे तत्वयणः । तश्च त्वश्च यण् च ते तत्वयणः । शब्दस्य प्रवृत्तिनिमित्तं भावः तस्मिन्भावे त व यण इत्येते
३३