________________
(२५६)
सारस्वते प्रथमावृत्ती कुत्र भवः कुत्रत्यः। अन्न किमोऽव्ययावेऽर्थे त्यः प्रत्ययः । एवं तत्र भव इति तदो. ऽव्ययात् अत्रभवोऽत्रत्यः इत्यत्र इदमोऽव्ययं तथा कुतो भवः कुत आगतो वा कुतस्त्यः । अमा सह भवोऽमात्यः । इह भवः इहत्यः । इत्यादिशब्दात् ज्ञेयम् । अधभवो ऽधतनः अत्र अद्यादेर्भवेथै तनः प० । यो गतवल्पे भवो बस्तनः । श्वः आगामिदिने भवतीति श्वस्तनः । सदा भवः सदाननः । सना निरंतरमेव भवतीति सनातनः । एवं दोषातनः, सायंतनः, चिरंतनः, भगेतनः, पुरातनः, प्राक्तन इत्यादि। 'दक्षिणापश्चात् पुरसस्त्यण् वक्तव्यः । दाक्षिणात्यः, पाश्चात्यः, पौरस्त्यः । सूत्रम् ।
स्वार्थेऽपि । उक्ताः प्रत्ययाः स्वार्थेऽपि भवन्ति । देवदत्त एवं दैवदनिकः । चत्वारो वर्णा एव चातुर्वर्ण्यम् । चोर एव चौरः ।। अव्ययसर्वनाम्नामकच् प्राक् टेः । अव्ययस्य सर्वादेश्चान्त्यस्वरात्पूर्वोऽकच्प्रत्ययो भवति । उच्चैरेवोच्चकैः । नीचैरेव नीचकैः । सर्व एव सर्वकः । विश्व एव विश्वकः । मया एव मयका । लया एव त्वयका । तदेव तकत् । यदेव यकत् । एतदेव एतकत् । अणीनयोयुष्मदस्मदोस्तकादिः। अण् च ईनश्च अणीनी तयोः अणीनयोः प्रत्यययोः परतो युष्मदस्मदोस्तवकादय आदेशा भवन्ति । आदिशब्दात्तवकममकयुष्माकास्माकाः । एकवे तवकममको द्वित्वे बहुले च युष्माकास्माको । तवेदं तावकम् । ममेदं मामकम् । तवायं तावकीनः । ममायं मामकीनः । युवयोरयं यौष्माकः । आवयोरयमास्माकः । युवयोरयं यौष्माकीणः । आवयोरयमास्माकीनः । युष्माकमयं यौष्माकः । अस्माकमयमास्माकः । युष्माकमयं यौष्माकीणः अस्माकमयमास्माकीनः ।
स्वार्थेऽपि । स्वस्य अर्थः स्वार्थस्तस्मिन (स. ए.) अपि (म. ए.) अव्य० पूर्वोक्ता अणादयः केनेयेकाः कमत्ययः स्वाऽपत्याद्यर्थवर्जित मूलाई भवन्ति देवदत्त एव देवदत्तकः अत्र स्वार्थे कः । चतुर+वर्ण चत्वार एव वणां इति वाक्पे ण्य