________________
तद्धितमकिया।
(२५५) नै । देवतामुनिमाहात्म्यात्कन्याया अप्यपत्यं घटते । कानीनो द्वैपायनमुनिः। एवं पुष्य पुण्येण युक्ता रात्रिः पौर्णमासी वा पौषी अत्र कारकादिति अण् वृद्धिः यलोपश्चेति यकारलोपः यस्यलोपः स्वर० ईप पुनः यस्यलोपः स्वर० (म. ए.) हसेपः पौषी यकारलोपः प्रसङ्गादिहेदमुदाहरणम् । अन्यत्रापि यलोपमाह । मत्स्यस्य यस्य स्वीकारे ईये वा ऽगस्त्यसूर्ययोः । तिष्यपुण्ययोर्नक्षत्रे अणि यस्य विभलना ॥ मत्सी, अगस्त्यस्यायम् आगस्तीयः, अगस्त्यस्येयं दिक् आगस्ती, सूर्यस्पायं सौर्यः तत्र भवः सौरीयः, सूर्यस्येयं दिक सौरी, तिष्येण युक्तः कालस्तैषः पुण्येण युक्तः कालः पौषः, इत्यादि क्षतात् प्रहारात् त्रायते इति क्षतं क्षत्राद्भवं क्षत्रिय, अत्र इय यस्यलोपः स्वर० अतोऽम् पक्षेऽण् क्षत्रः। एवं शुक्राद्भवं शुक्रिय यद्वा शुक्रो देवताऽस्येति शुक्रियं तथा इन्द्राद्भवमिन्द्रियं यद्वा इन्द्रस्यात्मनः प्रत्यक्ष ज्ञानकरणम् इन्द्रियं । क्षत्रिय शुक्रियं इन्द्रियं अत्र प्रयोगत्रयेऽपि विकल्पत्वात् सर्वथापि न वृद्धिः । अतः पागकैर्दीव्यति आक्षिकः अत्र कारकादिति क्रीडनार्थ इमत्ययः । भवादित्वाद्वा णित्त्वं चैषामिति णित्वं वृद्धिश्च यस्य लोपः स्वर (म. ए.) स्रो० शब्दमधीवे वेति वा शाब्दिकः वेदे भवा वैदिकी स्तुतिः ऋक् वा इक् प्रत्यये इकण् णित्त्वाश्रयणादणन्तत्वे वणईए यस्यलोपः (म.ए.) हसेपः० वैदिकी। एवं शस्त्रेण जयतीति शास्त्रिका, धनुषा जयतीति धानुष्कः, भवता प्रोक्तं भवत इदं वा भावत्कम् । सूत्रम् ।
त्यतनौ । त्यश्च तनश्च त्यतनौ किमादेरद्यादेर्शवाद्यर्थे त्यतनौ प्रत्ययौ भवतः । कुत्र भवः कुत्रत्यः । कुतो भवः कुतस्त्यः । अद्य भवोऽद्यतनः तत्र भवस्तत्रत्यः । ततो भवस्ततस्त्यः । अत्र अवोऽवत्यः । अतो भवोऽत्तस्त्यः । सदा भवः सदातनः । ह्यो भवो हस्तनः । वो भवः श्वतनः । पुरा भवः पुरातनः । चिरं भवश्चिरन्तनः । सायं भवः सायन्तनः । प्राढे भवः प्राङ्केतनः । चिरादिभ्यस्त्नः । चिरपरुपरादिभ्यस्त्नो भवाद्यर्थे । चिरं भवश्विरत्नः । परु भवः परुत्नः । परारि भवः परारित्नः।
त्यतनौ । त्यश्च तनश्च त्यतनौ (म.व,) ओऔऔ । एकपदम् । किमादेरद्यादेश्वेति। किमादेर्भवाद्यर्थे त्यः सत्ययो भवति तथैव अद्यादेस्तनः अद्याद्यययसाहचर्यात् किमोप्यययं गृह्यते भवाद्यर्थ इत्यत्र आदिशब्दादागतं सहशा गृह्यन्ते ।