________________
सारस्वते प्रथमावृत्तौ
1
न्यादीनामन्त्ययकारस्य लोपो भवति यकारे स्वरे परे | कन्यादीनामुपधायाः क्वचिद्यकारस्य लोपो भवति स्वरे यकारे च तद्धिते परे । यस्य लोपः । कन्यायां भवः कानीनः । पुष्येण युक्ता पौर्णमासी पौषी । नक्षत्रादृण् वक्तव्यः । अनन्तादीपू । पौष्यां भवः पौषीणः । चातुर्मास्यं व्रतमाचरतीति चातुर्मासिकः । इयो वा । क्षत्रशब्दाद्वा इयप्रत्ययो भवति । क्षतान्त्रायते इति क्षत्रम् | क्षत्राद्या निपात्यन्ते । क्षत्रे भवः क्षत्रियः । क्षात्रः । क्षत्रशब्दादण् वक्तव्यः | शुक्रो देवता यस्य तच्छुक्रियम् - शौक्रम् । इन्द्रो देवता यस्येत्यै - न्द्र-इन्द्रियम् । अक्षैर्दीव्यतीत्याक्षिकः । तर्के चतुरः तार्किकः । शब्दे कुशलः शाब्दिकः । वेदे भवा वैदिकी । व्यत्रेकोऽण्वत्कार्यम् ।
( २५४ )
केनेयेकाः । कश्च नश्च इयश्च इक्श्च कैनेयेकाः (म. ब. ) सवर्णे ० स्रो० एकपदम् । नाम्नो भवाद्यर्थेषु उत्पन्ना गताद्यर्थेषु इदमर्थे च वाच्ये क, ईन, इय, इक, एते चत्वारः प्रत्यया भवन्ति । णित्वं चैषामिति । एषां कादीनां प्रत्ययानां अणित्त्वेऽपि वैकल्पिकं णित्वं व्यवस्थित विकल्पेन णित्वं भवति । णितो वेत्युकत्वात् तेन क्वचित् प्रयोगे विकल्पेन वृद्धिः क्वचिन्नित्यं वृद्धिः क्वचित्सर्वथापि वृद्धिर्न भवति भवार्थः । कर्णाट कर्णाटे देशे भवः कार्णाटकः, कर्णाटको वा । उभयत्रापि कम० एकत्र वृद्धिः अन्यत्र न ( प्र . ए . ) स्रो० अत्र भवार्थे कः । ग्राम ग्रामादागतस्तत्र जातो वा ग्रामीणः । आदिशब्दात् अत्र आगतार्थे ईन् प्रत्ययः यस्य लोपः पुणो० सध्यच् सभ्यङ् एव सधीचीनः अथवा सभींचो भवः सधीचीनः अत्र स्वार्थे ईनः भवार्थे वा ईनः वर्णविश्लेपे सभि +अच् अञ्चरलोपो दीर्घश्चेति अल्लोपः इकारस्य च ई दीर्घः स्वर० एवं सम्पड् एव । यद्वा समीचि भवः समीचीनः सम्पच् ईन प्रत्ययः अचेदीर्घश्च समीच् स्वर० प्रयोगद्वयेऽपि वैकल्पिकत्वान वृद्धिः । एवं तिरश्चि भवस्तिरश्चीनः तिर्यच् + ईन प्र० तिरश्यादय इति तिरश्च् आदेशः स्वर० (म. ए. ) त्रो० पलोपश्च तद्धितप्रत्यये परे नानामुपधाभूतस्य यकारस्य लोपो भवति कन्या (पं ए.) कन्यायाः भवः कानीनः ईन प्र० कल्पितणित्वादृद्धिः अनेन यलोपः यस्य लोपः कानीनः (म. ए. ) ननु कन्यायाः कथमपत्यं संभवति ।