________________
तद्धितमकिया।
(२५३) कारकाक्रियायुक्ते । कारकादप्येते अणादयः प्रत्यया भवन्ति क्रियायुक्ते कर्तरि कर्माण चाभिधेये। कुकुमेन रक्तं वस्त्रं कौकुमम् । मथुराया आगतो जातो वा माथुरः । ग्रामे भवो ग्राम्य-ग्रामीणः । धुरं वहतीति धुर्य:-धौरेयः ।
कारकारिक्रयायुक्त । कारक ( पं. ए.) सिरत सवर्णे० क्रियायुक्त क्रियया युक्तं क्रियायुक्तं तस्मिन् (स. ए.) शइए द्विपदम् । कारकार' कर्तृ, कर्म, करण, संपदान, अपादान, आधारलक्षणादपि एते अणादयः प्रत्यया भवन्ति क्रियासहिते कतरि कर्मणि च वाच्ये सति । पट कारकाणि सन्ति ततः कारकेभ्य इति वक्तव्ये कारकादित्येकवचनं जात्यभिमायणा कुकुम (तृ. ए.) टेन भइए कुकुमेन रक्तं वस्त्रमिति विग्रहे पत्र कुङ्कुमेनेत्पत्र करणं कारकं, तथा रचनरूपक्रियासहितं वस्त्रं कर्म, तच्चानाभिधेयं भवोऽण समासमत्यययोरिति तृतीयालोपः उतार्थानामपयोगः गित्त्वादृद्धिः यस्यलोपः एवं कुसुम्भेन रक्तं कौसुम्भ एवं माञ्जिष्ठं मथुरा (पं.ए.) डितांयट सवर्णे० मथुराया आगतस्तत्र जातो वा इति वाक्ये अत्र अपादानं कारक विश्लेषावधाविति पञ्चमी आगमनक्रियायुक्तो नरः कर्ता थभिधेयस्ततोऽण ५० आदिस्वर० यस्य लोपः स्वर० माथुरः एवं ग्रामे भवो ग्राम्यः अत्र भवनक्रियायुक्त कतरि अभिधेये प्रामे इत्यधिकरणकारकात् ण्यम० यस्यलोपः स्वर० (म.ए.) स्रो० धुर (द्वि.ए.) द्विस्थाने धुरं वहतीति धुर्यों धौरेयो वा एकत्र ण्यम तत्र वा ग्रहणान वृद्धिः । अन्यत्र एयण तत्र वृद्धिः धौ । स्वर० उभयत्र (म. ए.) धुर्यः खोर्विहसे इति बद्धितयकारे नेति वक्तव्यं तेन धुर्यः इत्यत्र दीर्घत्वाभावः प्रक्रियामवे तु नभकुर्छरामिति दीर्घत्वनिषेधः धौरेयः । अत्र वहनक्रियाश्रये करि अभिधेये धुरमिति कर्म कारकात् ण्य, एयण् प्रत्ययौ एवं आत्मने हितः आत्मनीनः विश्वजनाय हितः विश्वजनीनः अत्र संपदान कारकाद्वक्ष्यमाण ईनप्रत्ययः । सूत्रम् ।
केनेयेकाः। क ईन इय इकइत्येते प्रत्यया भवन्ति । भवायर्थेषु । णित्वं चैषां वैकल्पिकम् । कर्णाटे भवः कार्णाटक:कर्णाटका । ग्रामादागतस्तत्र जातो वा ग्राम्या ग्रामीणः । अश्वेर्दीर्घश्च । सध्रीचि भवो वा सध्रीचा युक्तः सध्रीचीनः । समीचि भवो वा समीचा युक्तः समीचीनः । तिरश्चादयो निपात्यन्ते । तिरश्चि भवो वा तिरश्चा युक्तः तिरश्चीनः । उदीचि भवो वा उदीचा युक्त उदीचीनः । यलोपश्च । क