________________
(२५२)
सारस्वते प्रथमावृत्तौ धिकरण्ये बहुव्रीहौ मध्यमपदलोपः गन्धादेरिः यस्य लोपः स्वर० कुमुदगन्धिस्तस्यापत्यमिति वाक्ये ऽपत्येऽर्थे ण्यप्र० अत्रावस्य उकारस्य नित्यं वृद्धिः। को। यस्यलोपः स्वर० स्त्रीत्वादाबतः स्त्रियामित्याप् अत्र नित्यं वृद्धिः। एवं श्वशुरः । श्वशुरस्यायमिति वाक्ये इदमर्थे ण्य प० वृद्धिः यस्य लोपः जलतुं० (श.ए.) श्वार्यों प्रामः । विष्णु विष्णोरिदमिति वाक्ये अणम० वृद्धिः वै वो अव्यस्वरे स्वर० (प्र.ए.) कुलवत् । केचित्तु विष्णोः स्वरूपं वैष्णवमिति पठन्ति । इदमर्थस्य पूर्व प्रणीतत्वाद्विष्णोरिदमिति न पठन्ति । एवं गोरिदं घृतादि गव्यं इदमर्थे ण्य म० वो अव्य० स्वर० गव्यम् । कुले भवं कुल्यं कादिण्य० य अत्र पयोगट्टये वृद्धेरभावः यस्यलोपः युष्मद् अस्मद् तवेदं ममेदमिति विग्रहे इदमर्थे णीयः त्वन्मदेकत्वे त्वत् मत् क्ववित् पदान्ताश्रयणात् चपा अबेजबाः स्वर० अतोऽम् तवेदं, त्वदीयं, ममेदं मदीयं अत्रापि न वृद्धिः । एवं तस्येदं तदीयं, यस्येदं यदीयं, एतस्येदं एतदीयं, अत्र णीयप्रत्ययः न णित् ।
चतुरश्च लोपो ण्यणीययोः। चतुर् शब्दस्य चकारस्य लोपो भवति ण्यणीययोः प्रत्यययोः परतः ।
चतुरश्च लोपेति । चतुःशब्दसंबन्धिनश्चकारस्य लोपो भवति प्यणीपपोः परयोः इत्यनेनो भयत्रापि च लोपः।
पूरणेऽर्थेण्यणीयौ भवतः । चतुर्णी संख्यापूरकं तुर्य-तुरीयम्।
पूरणेऽर्थेण्यणीयो० । चतुर्णा संख्यापूरणः अयं तुर्यः तुरीयः अत्र पूरणार्थस्य इदमर्थान्त पावित्वात् इदमर्थे ऽण्पणीयप्रत्ययौ । अत्रापि न णित्त्वम् ।
अन्यस्य दक् । अन्यशब्दस्य दगागमो भवति णीयप्रत्यये परे । अन्यस्येदमन्यदीयम् । अर्धे जरयस्याः सार्धजरती। अर्धजरत्या इदमर्धजरतीयम् । स्वपरयोः कक् । स्वकीयम् परकीयम् । .
अन्यस्य दक् । अन्यशब्दस्य णीयपत्यये परे दगागमो भवति । ककारः स्थाननियमार्थः अकार उच्चारणार्थः । अन्य अन्यस्येदमिति विग्रहे इदमर्थे णीयःप्र० ईये दगागमे स्वर० अन्यदीयम् । अन्यत्रापि दगागममिच्छन्ति अन्यदर्थः अन्यद्रग्, अन्यदासा, 'अन्यदासी, अन्यदुत्सुकः, अन्यद्धविः, अन्यदास्था इत्यादि । अर्द्धजरती अर्द्धजरत्याः अर्द्धवृद्धायाः स्त्रिया इदं वनादि अर्द्धजरतीयम् । इदमर्थ णीयः प० यस्य लोपः स्वर० (म. ए.) कुलमत् गव्यमित्यारभ्योक्तमयोगेषु न वृद्धिः । सूत्रम् ।