________________
तद्वितप्रक्रिया।
(२५१) सुष्टु अव्ययम् । एवमेव अव्ययं तिष्ठति । सुभगस्य भावः सौभाग्यम् । क्वचिहयोः । क्वचित् (प. ए.) अव्य० द्वि (प. द्वि.) त्यदादेष्टे० ओसि० ए अय् स्वर० स्रो० पूर्व चपा० क्वविदिति । क्वचित्मयोगान्तरे पूर्वपदादेः स्वरस्य उत्तरपदादेः स्वरस्य च द्वयोरपि वृद्धिर्भवति । यथा अग्निमरुत् अग्निश्च मरुच्च अग्निमरुतौ तयोरिदं इदमर्थेऽण् । यद्वा कर्मण्यप्पण् वक्तव्यः कचिद्वयोरिति अग्निमरुतोरुभयोरप्यायस्वरस्य वृद्धिः। स्वर० कुलशब्दवत् आमिमारुतं एतत् कर्म । सुहृत् शोभनं हृत् हृदयं यस्य स सुहृद् सुहृदो भावः अत्र भावेऽण् वक्तव्यः । पश्चात् क्वचिइयोरिति सुहृत् इत्यत्र उकारऋकारयोर्द्वयोरपि वृद्धिः । सौहार्द राधपोद्विः जल. स्वर० (म. ए.) कुलशब्दवत् सौहाईम् । अत्र भावेऽण् वक्तव्य इति वक्तव्यबलादनुकोऽपि अण् । एवं सौभाग्यम् । एवं परस्त्रिया अपत्यं पारस्त्रैणेयम् । अथ प्रयोगानुसारेण वृद्धेरभावमाह । सूत्रम् । णितो वा । उक्ता वक्ष्यमाणाश्च प्रत्यया विषयान्तरे णितो वा भवन्ति । अजो गौर्यस्यासावजगुः शिवः । गोः इति
हस्वः । वोव्यस्वरे तस्येदं धनुराजगवं-अजगवं वा । कुमुदस्येव गन्धो यस्याः सा कुमुद्गन्धिः । तस्या अपत्यं स्त्री कौमुदगन्ध्या । वा कुमुदगन्ध्या। आवतः स्त्रियाम् । इत्याप्। श्वशुरस्यायं श्वाशुर्यों ग्रामः । विष्णोरिदं वैष्णवं । गोरिदं गव्यम् । कुले भवं कुल्यम् । तवेदं त्वदीयम् । ममेदं मदीयम् । अत्र णीयप्रत्ययो न णित् ।। णितोवा। णित् (प्र. ब.) स्वर० स्रो० वा (म. ए. ) अव्य. हवे. उओ । उता अणादयः प्रत्यया विषयान्तरे ऽन्तिरे णितो णकारानुबन्धा णित्संज्ञका वा भवन्ति । अत्र वाशब्दो व्यवस्थावाचको बहुलार्थः । तेन एतेषु परेवादिस्वरस्य क्वचिदृद्धिा, क्वचित् वृद्धेरभावोऽपीत्यर्थः । कचिद्विकल्पः । उदाहरणम् । अजगु अजोऽजन्मा गौः वृषभो यस्य सः अनगुः शिवः गोः इति सूत्रेण गोशब्दस्य इस्वः अजगुस्थाने अजगोरिदं धनुः अत्र इदमर्थे अण उभयत्र । एकत्र वृद्धिः आ, अन्यत्र न वृद्धिः। वो अब यस्वरे अव स्वर० कुलवत् आजगवमजगवं वा धनुः अत्र वा वृद्धिः । कुमुदगन्ध कुमुदस्य गन्ध इव गन्धो यस्य स कुमुदगन्धिः वैय