________________
(२५० )
सारस्वते प्रथमावृत्तौ
०
1
( प्र . ए . ) अव्य० त्रिपदं अपत्येऽर्थे उत्पन्नस्यः अणादेः प्रत्ययस्य बहुवचने सति क्वचिदिति ऋपिवाचकशब्दविषये अनृपिवाचके विषये वा लुग्भवति । न खियां । तत्र ण्यमत्ययस्य यथा गार्ग्यः, गार्ग्यौ बहुवचने गार्ग्य + अस् इति लुग बहुत्वे इति ण्यप्रत्ययस्य लुक् निमित्ताभावे नैमित्तिकस्याप्यभाव इति वृद्धेरभावः । गर्ग +अस् इति सवर्णे • स्रो० गर्गाः । अग्रेऽपि गार्ग्य, गार्ग्यौ, गर्गान् । गार्ग्यण, गर्गाभ्यां गर्गेः । एवं सर्वत्र बहुवचने ण्यप्रत्ययस्य लुक् । एवं वासिष्ठः, वासिष्ठौ, बहुवचने वासिष्ठ ( प्र. ब. ) अत्र अणो लोपः । निमित्ताभावे इति वृद्धेरप्यभावः । सवर्णे ० स्रो० आत्रेय ( म. ब. ) अत्र प्यणूलोपः अत्रि + अस् ए ओजसि ए अय् स्वर० स्रो० । आन्नेयः, आत्रेयौ, अत्रयः । आत्रेयं, आत्रेयौ, अत्रीन् । इत्यादिरूपाणि । वैदेह (म.व ) अणो लोपः वृद्धेरप्यभावः विदेह + अस् सवर्णै ० स्रो० विदेहाः । एवं राघवः, राघवौ, रघवः । सूत्रम् ।
देवतेदमर्थे । देवतार्थे इदमर्थे चोक्ताः प्रत्यया भवन्ति । इन्द्रो देवता यस्येत्यैन्द्रं हविः । सोमो देवता यस्येति सौम्यं हविः । देवदत्तार्थमिदं देवदत्तं वस्त्रम् ।
देवतेदमर्थे । देवता च इदं च देवतेदमौ तयोरर्थो देवतेदमर्थस्तस्मिन् (स ए.) अइए एकपदमिदं सूत्रम् । देवता स्वामित्वेनाधिष्ठायकः तस्यार्थे इदमर्थेति अस्वेदं वस्तु अस्मिन्नर्थेऽपि उक्ता अणादयः प्रत्यया भवन्ति । इन्द्र इन्द्रो देवता अस्येति वाक्ये अत्र देवतार्थेऽण् णित्वादृद्धिः । ऐन्द्र यस्यलोपः स्वर ० ( प्र. ए.) अतोsम् अम्शसो ऐन्द्रं हविः । इन्द्रार्थे कल्पितं घृतमित्यर्थः । स्त्रियां ऐन्द्री दिक् । सोमः सोमो देवताऽस्येति वाक्ये अत्र देवतार्थे ण्यप्रत्ययः । आदिस्वरस्येति वृद्धिः, सौ यस्यलोपः स्वर • कुलशब्दवत् सौम्यम् । देवदत्त देवदत्तार्थमिदं देवदत्तस्य इदं अत्रेदमर्थेऽण् वृद्धिः दै यस्यलोपः स्वर० कुलशब्दवत् । एवम् आग्नेय, वायव्यं, पैत्र्यं, उषस्य, इति देवतार्थे । अथ इदमर्थे । नद्या अयं नादेयः इत्यादि । देवतेदमा इत्युक्तेऽपि सिद्धौ अर्थग्रहणादन्यत्राप्यर्थे । उदुम्बराणि सन्त्यस्मिन्नर्थे देशे औदुम्बरो देशः । एवं वादरः इत्यादि ज्ञेयम् । अथ वृद्धिविशेषमाह ।
क्वचिद्वयोः । क्वचित्पूर्वोत्तरपदादेरचो वृद्धिर्भवति त्रिति णिति च तद्विते परे । अग्निमरुतौ देवते यस्य तदाग्निमारुतं कर्म । सुष्टु हृदयं यस्यासौ सुहृत् । सुहृदो भावः सौहार्द - म् । अत्र भावेऽण् वक्तव्यः । मुष्टु भावः सौष्टवम् । अत्र