________________
(२४४)
सारस्वते प्रथमवृत्ती गमनस्य लोपः 1 पश्चादाबतः स्त्रियां (म.ए.) आपः हंसगमना । समासश्चतुर्दा । नित्यानित्यालगल्लभेदात् । अथ नित्यसमासमाह । दिसंख्ये संज्ञायाम् । दिग्वाचकसंख्यावाचकशब्दावुत्तरपदतुल्यार्थों संज्ञायां समस्येते स तत्पुरुषः । संज्ञायामिति पदेन नित्यसमासो दर्शितः । अविग्रहो नित्यसमासः । अन्यस्त्ववपदविग्रहोऽपि भवति । विग्रहो द्विविधः । एकः खपदविग्रह एकोऽस्खपदविग्रहोऽपि भवति । अस्वपदेन समासव्यतिरिक्तेनापि पदेन विग्रहो वाक्यं यत्र स नित्यः । तेन लम्बौ कौँ यस्य स लम्बकर्णः। दात्रेण छिन्नमिति स्वपदविग्रहः । अस्वपदविग्रहो नित्यायमिन्समासावबोधक वाक्यं न तिष्ठति स नित्यः । दक्षिणाग्निः सप्तग्रामः ।
॥ इति समासप्रक्रिया ॥ दिक्संख्ये संज्ञायाम् । दिक्संख्ये (म.द्वि.) संज्ञायां (स. ए.) दि. ग्वाचक संख्यावाचकं च पदं संज्ञायां वाच्यमानायां तुल्यार्थेन एकार्थेन उत्तरपदेन सह अविग्रहं विग्रहरहितं समस्यते, समासश्च तत्पुरुषो भवति । तत्र समासश्च नित्पो भवति । अथ नित्यानित्यसमासस्वरूपमाह । अविग्रहो नित्यसमासः । यो नित्यसमासः स विग्रहरहितः असमस्यमानपदविग्रहो भवति । अन्योऽनित्यसमासो ऽस्वपदविग्रहः । परपदविग्रहोऽपिशब्दात् स्वपदविग्रहोऽपि भवति । अस्वपदविग्रहों यथा त्रियमधिकृत्य अत्र अधिकृत्येवि परपदेन विग्रहः बालपदत्वात् । अस्वपदम्, अथवा बहु धनं यस्य सः । अत्र पस्येति परपदेन विग्रहः इति अस्वपदविग्रहः । स्वादन्यः इत्यप्यस्वपदविग्रहः तथा ग्राम प्राप्त इत्यादौ स्वाभ्यां विग्रहमध्यवतिभ्यां पदाभ्यां विग्रहः। अथ नित्यसमासोदाहरणं यथा दक्षिणागिरिति अग्निभेदः । स्युर्दक्षिणाहवनीय, गार्हपत्यानयोऽययः इति । दिग्याची दक्षिणाशब्दः एकार्थेन अमिना परपदेन समस्पते, समासश्च तत्पुरुषः । नित्यत्वाद्विग्रहो न क्रियते तथा सप्तग्राम इत्यत्र सप्तशब्दः संख्यावाचकः । एकार्थेन ग्रामपदेन समसितः । अथ विग्रहं विनापि नित्यस्तत्पुरुषः समासः। नित्यं पदद्वयात्मकत्वात् समासरूपमेव पदमित्यर्थः। दक्षिणागिरिति अग्निभेदः। नामवाची शब्दः सप्तग्राम इति ग्रामादिनामवाची शब्द इति । पूर्वेऽव्ययेऽव्ययीभावोऽमादौ तत्पुरुषः स्मृतः ॥ चकार बहुलो द्वन्द्वः