________________
समासमकिया।
(२४३)
ऋतां वन्दे । ऋकारान्तानां द्वन्द्वसमासे सति पूर्वपदस्य वा आकारो वक्तव्यः। मातापितरौ । ऋतांद्वन्द्वे । ऋता (प. ब.) द्वन्द्वे ( स. ए.) ऋतामिति अकारान्तशब्दानां द्वन्द्वे पूर्व यत्पदं तत्संबन्धिन अकारस्य आकारो वा भवति । माता च पिता च अत्र विभक्तिलोपे मातृशब्दे कारस्य आ मातापित (प.द्वि.) पञ्च अर् स्वर० मातापितरौ एवं पितापुत्रौ, दुहितापुत्रौ, होवापोतारौ,इत्यादिः।पक्षे पूर्वपदलोपे पितरौ वाग्रहणादेव मातरपितरावित्यपि ।
बन्दे सर्वादिलं वा । वर्णाश्च आश्रमाश्च इतरे च वर्णाश्रमेतरे-वर्णाश्रमेतराः।
द्वन्द्वे सर्वादित्वं वा । द्वन्द्वसमासे सर्वादीनां शब्दानां सर्वादित्वं सर्वादिकार्य वा भवति, वा न भवतीत्येवेत्यर्थः । उदाहरणं वर्णाश्रमेतरा द्विस्थाने वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचर्यादयः, इतरे शूद्रवृषलादयः। ततो वर्णाश्व आश्रमाश्च इवरे च समाहारद्वन्द्वस्ततो विभक्तिलोपे उभयत्रापि (म.ब.) एकत्र सर्वादिस्वाजसी अइए आदौ सवर्णे० आश्रम अग्रे इतर अइए यत्र सर्वादित्वं न तत्र (म.ब.) सवर्णे० स्रो।
वैयधिकरण्ये बहुव्रीही मध्यमपदलोपो वक्तव्यः । कुमुदस्य गन्ध इव गन्धो यस्यासौ कुमुदगन्धिः । हंसस्य गमनमिव गमनं यस्याः सा हंसगमना।
वैयधिकरण्ये इति । भिन्नविभक्त्यन्तानां पदानां भिन्नार्थनिष्ठत्वं वैयधिकरण्यं, यद्वा भिन्नविभत्स्यन्तत्वे सति भिन्नार्थमतिपादकद्वारा एकस्मिन्नर्थे वृचिय॑धिकरणं तस्य भावो वैयधिकरण्यं वस्मिन् वर्तमाने बहुव्रीहिसमासे मध्यमपदलोपो वकव्यः। कुमुद (प. ए.) सः स्य गन्ध इव (म. ए.) अव्य० गन्ध (प्र. ए.) स्रो० कुमुदस्य गन्ध इव गन्धो यस्येति विग्रहे अत्र कुमुदस्येति षष्ठयन्तं शेषाणि प्रथमान्तानि समासप्रत्यययोरिति विभक्तिलोपे उतार्थानामिति इवलोपे कुमुदगन्धगन्ध इति स्थिते अत्र मध्यपदस्य गन्धस्य लोपः । पश्चात् मध्यमपदलोपश्चेति चकारात् गन्धादेरिः इप्रत्ययः । यस्पलोपः स्वर (म.ए.) लो० कुमुदगन्धिः । तथैव हंस (ष. ए.) उस्स्य गमन (म. ए.) अतोऽम् अम्शसोरस्य मोनु० इव (म. ए ) अव्य० गमन (म. ए.) पूर्ववत् हंसस्य गमनमिव गमनं यस्या इति विग्रहे बहुव्रीहिः समासमत्यययो। उक्तार्थानामप्रयोगः हंस+गमन+गमन इति स्थिते मध्यपदस्य