________________
१२३८)
सारस्वते प्रथमवृतौ अ इतिस्थिते णित्वादृद्धिः कार स्वर० स्रो० अत्र कुम्भशब्दस्य कृदन्तेन सह तत्पुरुषः कुम्भकारः । सूत्रम् ।
सहादेश्सादिः । सहादीनां सादिर्भवति । सहसतिरसां सध्रिसमितिरयः । सह अञ्चतीति सध्यङ् । समश्चतीति सम्यङ् । तिरः अञ्चतीति तिर्यङ् । क्वचिन्न भवति । सह चरतीति सहचरः । कुगतिपादयः । कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेनान्वये समस्यन्ते स तत्पुरुषः । कुपुरुषः । कुत्सितमन्नं कदन्नम् ॥
सहादेःसादिः। सह आदिर्यस्य गणस्य स सहादिस्तस्य (प. ए.)हितिस्पत्य कारलोपः स्रो० सादिः स आदौ यस्य स सादिः (म. ए.) स्रो० द्विपदं। समासे कृते सति सहादीनां सह, सम्, विरस, इत्यादीनां पूर्वपदानां क्रमेण स, समि, सधि,तिरि, इत्यादय आदेशा भवंति। आदिशब्दात्अन्येऽप्यादेशा यथासंभवं भवन्ति इतिभावः । तत्रोदाहरणं सह (प्र. ए.) अव्यपुत्र (तृ. ए.) टेन अइए श्रुणिो० सहपुत्रण अत्र चशब्देन तत्पुरुषः प्रक्रियामतेषु बहुव्रीहिः तेन सहेति तुल्ययोगे सहेत्येतत्तृतीयान्तेन समस्यते स बहुव्रीहिः विभक्तिलोपे सहस्य स आदेशः (म.ए.) स्रो० समासे सो भवतीति सूचयति तेन ज्योतिर्जनपदे, पिण्ड, बन्धु, लोहित, नाभि, वेणि, रात्रि, गन्ध, कुक्षि, ब्रह्मचारि, तीर्थ्य, पत्नी, पक्षेषु समानशब्दस्य स आदेशः । समानं ज्योतिर्यस्य स सज्योतिः, सजनपदः, सपिण्डः, सबन्धुः, सलोहितः, सनाभिः, सवेणी, सरात्रिः, सगन्धः, सकुक्षिः, सब्रह्मचारी, सतीर्थ्या, समाना पत्नी सपत्नी, सपक्षः, रूपादिषु विकल्पेन समानशब्दस्य स आदेशः समान रूपं यस्य स सरूपः समानरूप इति वा । सवर्णः समानवर्णः, सजातीयः समानजातीयः, सगोत्रः समानगोत्रः, संस्थानं समानस्थान,सधर्मा समानधर्मा, सवया समानवया, सनामा समाननामा, इति यथाप्रयोगमवसेयम् । अञ्चगतिपूजनयोः अञ्च् सहपूर्वः सह (म. ए.) अव्य० अञ्च तिप् अप कर्तरि स्वर० सह अञ्चति गच्छति इति विग्रहे कृदन्तेन विपप्रत्ययेन तत्पुरुषसमासः विपइति विपप्रत्ययः विपः सर्वोपहारी लोपः अञ्च् इत्यत्र नोलोप इति नकारस्य अनुस्वारस्य लोपः। सहादेःसादिरिति सहस्य सभि आदेशः इयं स्वरे सध्यन् (प्र. ए.) 'अञ्चेः पञ्चम नुम्' इति नमा गमः 'स्तोश्चभिःशुः' नस्य सः हसेपः संयोगान्तस्येति चलोपः।चोः कुः चस्य इ. सध्पङ् अग्रे प्रत्यच् शब्दवत् । एवं सम्पूर्वोऽन् समः समि आदेशः अग्रे पूर्ववत् सम्पच सं सम्यक् प्रकारेण अञ्चतीति सम्पङ् एवं विरस पूर्वोऽच तिरसस्तिर्यादेशः