________________
- समासप्रक्रिया ।
( २३९ )
इयं स्वरे वियं द्वितीया द्वित्वं पावत शसादौ स्वरे तु तिरश्चादय आदेशा निपात्यन्ते । उदच् शब्दश्य उदीच् इति निपातः शसादौ स्वरे इति । तिरश्चः तिरश्चा पूर्ववत् एवं विष्वक अञ्चतीति विष्वय सहादेः सादिरिति विष्वकस्थाने विष्वद्रि देवम् अञ्चतीति देवद्व्यङ् सहादेः सादिरिति देवस्य देवद्रि अमुम् अञ्चतीति अदय अमुम् इत्यस्य अदद्रि आदेशः । इत्यादयो यथासंभवं ज्ञेयाः ।
कुत्सितेषदर्थयोः । कुत्सितेषदर्थयोर्वर्तमानस्य कुशब्दस्य का कब कत् इत्येते आदेशा भवन्ति । तत्पुरुषे न तु बहुव्रीहौ । बहुव्रीहौ तु कुत्सिता विद्या यस्यासौ कुविद्यः । कुत्सिता उष्ट्रा यस्य स कूष्टः । कुत्सितः पन्था यस्मिन्नसौ कुपथो देशः । काकवकदुष्णे । उष्णशब्दे परे कुशब्दस्य का कव कत् इत्येते आदेशा भवन्ति । कु ईषदुष्णं कोष्णम् - कवोष्णम् - कदुष्णम् । कु ईषत् लवणं कालवणम् ।
कुत्सितेषदर्थयोः । काकवादयो वक्तव्याः । कुअन्नं कुत्सितमन्नं इति विग्रहे अत्र व्याकरणान्तरमते तत्पुरुषः स्वमते तु कर्मधारयः कुशब्दस्य कत् चपा अबे - जबा तस्यदः स्वर० कदन्न (प्र. ए.) अतोऽम् मोनु० । एवं कदशन (प्र. ए ) अतोऽम् मोनु० एवं कदध्वा । उष्णः सर्वत्र कुपूर्वः ईषदर्थे उष्ण शब्दे परे कु इत्यस्य कतु का कव एते त्रय आदेशा भवन्ति । कु ईषदुष्णमिति विग्रहे एकत्र कत् द्वितीये का तृतीये कव । कदुष्ण कवोष्ण कोष्ण (म. ए. ) स् सर्वत्र कुलशब्दवत् । लवणः कुपूर्वः कु ईषल्लवणमिति विग्रहे ईषदर्थे कोः का कालवणम् ।
पुरुषे वा । पुरुषशब्दे परे कुशब्दस्य वा कादेशो भवति तत्पुरुषे ।
पुरुषे वा । पुरुषशब्दे परे कुइत्यस्य वा कादेशो भवति । कुत्सितः पुरुषः कुपुरुषः कापुरुषः । एवं कत्तृणं, कद्रथः, कद्वदः, कदध्वा, कापथः, काक्षः, काशिः, कदग्निः इत्यादयः प्रयोगानुसारेण ज्ञेयाः ।
विभाषा पुरुषे का स्यान्नियमेन हसे परे ॥ अचि त्रिरथवदे को कत्काक्षे वा पुरुषे पथि ॥ ईषदर्थे च वाच्ये स्युरम्नावुष्णे काकत्कवाः ॥