SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ( २३४ ) सारस्वते प्रथमवृत्तौ शब्दात्कचिदन्यत्रापि पदस्याकारलोपः सपात् अपात् । अय सर्वसमासंसाधारणान् प्रत्ययानाह । 1 टाडकाः । समासे सति ट अ ड क इत्येते प्रत्यया भवन्ति श्व तत्पुरुषे ज्ञेयो ह्यकारो द्वन्द्व एव च ॥ डकारस्तु बहुव्रीहौ ककारोनियमो मतः ॥ टाडकाः । व्श्च अश्च डश्च कश्च टाडका ( म.द्वि.) सवर्णे ० त्रो० सिद्धम् । समासे इति बहुव्रीहौ तत्पुरुषे द्वन्द्वे कर्मधारये च नाम्नः ट, अ, ड, क, एते चत्वारः प्रत्यया भवन्ति यथासंभवम् । टकार ईबर्थः, डकारश्च टिलोपार्थः, अकारः ककारश्च यथास्थित एव । तत्र प्रथमं मत्पयोदाहरणमाह । अचिन्त्य (म. ए.) स्त्रो० महिमन् (प्र. ए.) नोपधायाः हसेपः सेर्लोपः नानो० पश्चात् हवे उओ । अचि - न्त्यो महिमा यस्येति विग्रहे बहुब्रीहिसमासे विभक्तिलोपे अचिन्त्यमहिमन् इति स्थिते टाका इति टप्रत्ययः ततः । सूत्रम् । नो वा । नान्तस्य पदस्य टेर्लोपो वा भवति स्वरे यकारे च परे । अचिन्त्यो महिमा यस्य सोऽचिन्त्यमहिमः । वायहणात्कचिन्न भवति किंतूपधालोपश्व । अह्नो मध्यं मध्याह्नः । द्वयोः समाहारो यह्नः ॥ रात्राह्नाहाः पुंसि । एते पुंस्येव स्युः । सर्वरात्रः । सर्वाह्णः । त्र्यहः । कवीनां राजा इति कविराजः । टकार ईबर्थः । कविराजी । ष्ट्रितः । राज्ञां पू: इति राजपुरम् । अप्रत्ययः । वाक् च मनश्च वाङ्मनसम् । चोः कुः । ञ ञमा वा । दक्षिणस्यां दिशि पन्था इति दक्षिणापथः । अहश्व रात्रिश्व अहोरात्रम् । अप्रत्ययः । अहो - रात्रमित्यत्र नपुंसकत्वं वा वक्तव्यम् । अहोरात्रः । द्वौ च त्रयश्च द्वित्राः । पञ्चषाः । बहुत्वविवक्षायां बहुवचनं जम्। बहवो राजानो यस्यां सा बहुराजा नगरी । अत्र टिलोपे कृते आवतः स्त्रियाम् इत्याप् डप्रत्ययः । बहवः कर्तारो यस्यासौ बहुकर्तृको यागः । नोवा | न् ( प ए.) स्वर० स्रो० वा (म.ए.) अभ्य० नकारान्तस्य
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy