________________
१२३२)
सारस्वते प्रथमवृचौ। न्तस्य न पुंवदमानिनि । ब्राह्मणीभार्यः । मुकेशीभार्यः ।अमानिनीति किम् । ब्राह्मणमानिनी ॥ युद्धर्जितरक्तविकारार्थवर्जिततद्धितान्तस्य न पुंवत् । मैथिलीजायः । युद्धर्जितरक्तविकारार्थवर्जितेति किम् । वैयाकरणभार्यः, काषायकन्यः, हैममुद्रिकः । वाग्रहणादियं विवक्षा ।
अन्यार्थे । अन्यार्थे (स. ए.) अइए एकपदं स्त्रीलिङ्गस्य स्त्रीपत्ययान्तस्य ग. सदस्य अन्याथै परार्थे वर्तमानस्य इस्वो भवति उत्तरपदस्य इति शेषः । अन्यथा पूर्वपदे रूपवती इत्यादौ प्रसङ्गः। अतो भार्याशब्दस्य इस्वः। रूपवतीमार्य इति स्थिते । सूत्रम् ।
पुंवदा । समासे सति समानाधिकरणे पूर्वस्य स्त्रीलिङ्गस्य पुंवद्वा भवति । वाग्रहणात्कल्याणीप्रिय इत्यादौ न भवति । पुंवद्भावादीबापोनिवृत्तिः। रूपवद्भार्यः ।
पुंवद्वा। पुंवत् (म. ए.) अव्यया० वा (म. ए.) अव्य० पश्चाच्चपा तस्यदः । स्वर द्विपदम् । समासे सति समानाधिकरणे एकविभक्यन्तानां पदानां विशेषण विशेष्यभावेन एकार्थनिष्ठत्वं सामानाधिकरण्यं तस्मिन् वर्तमानस्य पूर्वपदस्य पूर्वभू. तस्य उक्तपुंस्कस्य स्त्रीलिङ्गस्य पुंवत् पुल्लिङ्गवत् रूपं भवति । अनेन पुंवद्धावाद्रूपवतीत्यत्र वर्तमानस्य ईपो निवृचिरतो 'रूपवद्+भार्य' इति स्थिते चपा० अनेन तस्य दः स्वर० स्रो० रूपवनार्यः सिद्धम् । नहि पुंवद्भावे केवलस्य ईपो निवृचिः किंतु क्वचिदापोऽपि निवृत्तिः । शोभनमार्यः, दीर्घजंघः, दीर्घजंधी, वा । रक्तलतेत्यादौ अयं वाशब्दो व्यवस्थितविकल्पं द्योतयतीत्याह । वाग्रहणात् कल्याणीपियइत्यादौ पुंवद्भावो न भवति कल्याणी पिया यस्येति विग्रहे समानाधिकरणे उक्तपुंस्करय कल्पा णीशब्दस्य न पुंवद्भावः, आदिशब्दात् वामोरूभार्यः, गौरीभार्यः, पञ्चमीप्रियः, इ. त्यादौ न पुंवद्भावः । मनोज्ञा, सुभगा, दुर्भगा, क्षान्ता, चपला, वामा, वामना, सचिवा, श्यामा, बाला, तनया, ब्राह्मणी, दत्ता, रसिका, मैथिली, इत्यादयः कल्या ण्यादिषु ज्ञेयाः । तथा श्येना इवाचरतीति श्येनायते इत्यादौ यङि पण्डितां मन्यते पण्डितमानिनी । यद्वा भावः पटुता, पटुत्वं, अल्पां देहि, अल्पशः, अल्पतरा, अल्पतमा, अनुकूलदेश्या अनुकूलदेशीयाः पण्डिता, पट्टी अल्पा अनुकूला,सर्वत्र पुंवद्भावः इत्यादौ प्रयोगानुसारेण पुंवद्भावो दर्शनीयः । अन्याथै वर्तमानस्येत्युक्तत्वात् न के वलं बहुव्रीहारिति भावः। शुभ्राः, रुप्या इत्यादौ न । वाग्रहणादेवेति ज्ञातव्यम् । सत्रम् ।