SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ६ २३० ) सारस्वते प्रथमवृत्तौ । ब्देभ्यः सप्तम्यन्तस्य पूर्वनिपातो न । इन्दुः शेखरे यस्यासाविन्दुशेखरः । पद्मं नाभौ यस्य स पद्मनाभः । कपिध्वजः । प्रजामेधयोरसुक् । बहुव्रीहाविति । बहुव्रीहि समासे यद्विशेषणभूतं पदं भवति एतयोः पदयोः पूर्वनिपातः प्रथमं प्रत्ययो भवति । बहुव्रीहेरुपलक्षणत्वात् कर्मधारयेऽपि विशेषणस्यैव पूर्वनिपातो भवति । रकलतेत्यादौ संबन्धे सत् व्यावर्त्तकं विशेषणं विशेषणपदं ' परार्थे स्वार्थनिक्षेपादप्रधानं विशेषणं । विशेष्यं तु प्रधानं स्यात् स्वार्थस्यैव प्रकाशनात् ' । यथा लंबकर्णः, दीर्घग्रीवः इत्यादि । सप्तम्यन्तं यथा । ब्रह्मणि योनिरस्य स ब्रह्मयोनिः, अप्सु योनिरस्येत्यप्सुयोनिः, भाले लोचनं यस्य स भाललोचनः भुवने कीर्तिर्यस्य स भुवनकीर्तिः, धर्मे मंतिर्यस्य स धर्ममतिः इत्यादि । वक्तव्यस्य प्रयोगानुसारित्वात् क्वचित्सप्तम्यन्तस्यापि पुरो निपातः । यथा चन्द्रशेखरः, पत्रं नाभौ यस्य स पद्मनाभः, तत्र टाडका इति ड प्रत्ययः पद्मनाभः चन्द्रमौलिः, शूलपाणिः, चक्रपाणिः, कपिध्वजः, इत्यादौ सप्तम्यन्तं परपदम् । प्रजासुपूर्वः, तथा दु+धाः सुष्ठु शोभना मजा यस्येति विग्रहे तथा दुर्दुष्टा मेधा यस्पेति विभक्तिलोपे सुमजा दुर्मेधा इति स्थिते प्रजामेधयोरिति बहुव्रीहौ न सुदुर पूर्वयोः मजामेधाशब्दयोरन्यार्थे वर्त्तमानयोः असुगागमो भवति कित्त्वादन्ते उकार उच्चारणार्थः । सुमजा+अस्ं दुर्मेधा+अस् इति स्थिते यस्य लोपः । इत्यालो० स्वर० सुप्रजस् दुर्मेधस् उभयत्रापि भत्वसोऽसौ हसेपः० त्रो० सुमजाः सुप्रजसौ सुप्रजसः । दुर्मेधाः दुर्मेधसौ दुर्मेधसः । एवं अप्रजाः, दुर्मेधाः । क्वचिदन्यत्रापि मन्दमेधाः, अल्पमेधाः । तथा । धर्मादन् केवलात् । केवलात्पूर्वपदात्परो यो धर्मशब्दस्तद न्ताद्बहुव्रीहेरनिच् प्रत्ययः स्यात् । कल्याणधर्मा । सुधर्मा । केवलात्किम् । परमः स्वो धर्मो यस्य स परमस्वधर्मः ! जायाया निङादेशो बहुव्रीहौ वक्तव्यो यलोपश्च । लक्ष्मी जानिः । उत्पूतिसुसुरभिभ्यो गन्धशब्दस्येकारान्तादेशो बहुव्रीहौ वक्तव्यः । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः । आगन्तुकस्यैकवचनान्तस्य वा । सुगन्धि आ पणः सुगन्धो वा । अल्पाख्यायां च । अल्पपर्यांयो गन्ध शब्दः । सूपोऽल्पो यस्मिन् तत्सूपगन्धि भोजनम् । वृतग
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy