________________
समासक्रिया।
(२२९) अन्यपदस्यैव बाह्यपदस्यैवार्थः प्रधानो यस्य स बहुव्रीहिसंज्ञकः समासो भवति । बहु (प. ए.) नपुंसकात्० धन (म. ए.) अतोऽम् अम्शसो मोऽनु बहु धनं यस्य इति विग्रहे अत्र समापस्थौ बहुधनशब्दो ताभ्यां अस्येति अन्यपदपधानं ततो, बहुव्रीहिसमासः समामसंज्ञायामुभयत्रापि विभकिलोपः । यस्यैत्यस्योचार्थानामभयोगः 'बहुधन' इति स्थिते बहुव्रीहर्वाच्यलिङ्गवा इति बहुव्रीहिरन्यपदपधानत्वात्पर लिङ्गं यस्य नरस्येति नरशब्दस्य पुलिङ्गत्वात् पुंस्त्वे (म. ए. ) स्रो० बहुधनः सिद्धम् । एवमस्तीत्यव धनं यस्य सोऽस्तिधनः यदि वा अस्तीत्यव्ययं विद्यमानार्थवाचकं ततोऽस्ति विद्यमानं धनं यस्येत्यस्तिधनः (प्र. ए.) स्रो० एवं तपोधनः। यशोधनः । द्वितीयाधन्तान्यपदेषु प्रधानेषु बहुव्रीहिर्भवति । यथा प्राप्तो राजा यं स प्राप्तराना, ऊढा कन्या येन स ऊढकन्यः, दत्तं वसु यस्मै स दत्तवसुः, उद्धृतः शल्यो यस्माचदुद्धृतशल्यं क्षतं, वीतो गतो रागो यस्मात्स वीतरागः, बहु धनं यस्य स बहुधनः, धर्मिणो लोका यस्मिन्स धमिलोको ग्रामः इत्यादि । इह बहुव्रीहिविधा। तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च । तस्य लक्षणं ग्रन्थकार एवाह । तस्येति तस्य प्रधानभूतस्य पुरुषादेः एकदेश एकोऽवयवो हस्त, पाद, मुख, कर्णादिरूपो यत्र विशेषणतया विशेषणत्वेन ज्ञायते स तद्गुणसंविज्ञानो बहुव्रीहिसमासः । तस्योदाहरणम् । लम्बी कौँ यस्य स लम्बकर्णः। इत्यत्र कर्ण इति नरस्य एकदेशः कर्णः स एव समस्यमानविशेष्यभूतस्य नरदेविशेषण वेन ज्ञातोऽतस्तद्गुगसंविज्ञानोबहुव्रीहिः। अतद्गुणसंविज्ञानो यथा । दीर्घकायः । अत्र कायस्प नराश्च ऐक्यात् । एवं दीर्घग्रीवो, महाभुजः, चित्रगुः इत्यादयस्तद्गुणसंविज्ञाने शब्दाः । ननु लम्बकर्ण इत्यत्र अन्यपदार्थभधानत्वात्पदसाम्ये कर्णलम्ब इति कथं न प्रयुज्यते इत्यत आह ।
बहुव्रीहौ विशेषणसप्तम्यन्तयोः पूर्वनिपातो वक्तव्यः । धनं करे यस्य स करधनः । मतिः कृष्णे यस्य स कृष्णमतिः । बुद्धिधर्मे यस्य स धर्मबुद्धिः । कंठे हारो यस्य स कंठहारः । करे कंकणं यस्यासौ करकरणः भुवने कीर्तिर्यस्यासौ भुवनकीर्तिः । प्रहरणार्थेभ्यः परेनिष्ठासप्तम्यौ वक्तव्यौ। तक्तवतू निष्ठा। तक्तवतू प्रत्ययौ निष्ठासंज्ञौ स्तः । चक्रं पाणौ यस्य स चक्रपाणिः । दण्डः पाणौ यस्य स दण्ड पाणिः । अस्युद्यतः उद्यतासिरित्यपि भवति । प्रियादीना वा । प्रियगुडः गुडप्रियः । इन्दादिभ्यश्च । इन्द्वादिभ्यः श