________________
( २२८ )
सारस्वत प्रथमवृत्तौ ।
समाहृताः एकीकृताः इति विग्रहे विभक्तिलोपे नाम्नो० सवर्णे - पञ्चामि । अत्र अदन्तत्वाभावान्न ईपू ततः समाहारस्यैकत्वात् एकत्वे द्विगु द्वन्द्वाविति कीबे (प्र. ए.) नपुंसकात्स्यमोर्लुक् पञ्चामि इति सिद्धम् । तथा पश्चानां गवां समाहार इति विग्रहे समासप्रत्यययोरिति उभयत्रापि भामो लोपे पञ्चन् गो (म.ए.) नाम्नो० नपुंसकस्येति ह्रस्वं ओकारस्य उकारः हस्वादेशे सन्ध्यक्षराणां नपुंसकात्स्यमोर्लुक् अप्राप्यकारान्तवर्जितत्वान्नेपू त्रि (प.द्वि.) नुडामः प्रेरयङ् स्वर० मोऽनुस्वारः फल (प.द्वि.) नुडामः । नामि स्वर० मोनु० अग्रे समाहारे इति पदं । त्रयाणां फarti समाहारः इति विग्रहे समासप्रत्यययोः उक्तार्थाना० आवतः स्त्रियां (प्र. ए.) आपः त्रिफला इति सिद्धम् । ननु त्रिफला इत्यत्र संख्यापूर्वकत्वेऽपि द्विगुसमासे फलशब्दस्य अकारान्तादीपू प्रत्ययः किं न क्रियते इति शङ्कायामाह । त्रिफला, रूढित इति । त्रिफला इति पदं रूढितः लोकप्रसिद्धितः सिद्धम् । 'लक्षणैन पपनस्प प्रयोगस्य कथं बत | बहुशिष्टावृतत्वं हि रूढिरित्यभिधीयते ।' नतु नियमानुलक्षणोपपत्रं इति । द्विगुसमासस्य पात्रादिव जित्वात् पञ्चानां पात्राणां समाहारः पञ्चपात्र, त्रयाणां भुवनानां समाहारखिभुवनं एवं चतुर्युगं, इत्यकारान्तत्वेऽपि ईए न भवति । सांप्रतं बहुव्रीहिसमासं निरूपयति । सूत्रम् ।
बहुव्रीहिरन्यार्थे । अन्यपदार्थप्रधानो यः समासः स बहुव्रीहिसंज्ञको भवति । बहुधनं यस्य स बहुधनः । अस्ति धनं यस्य सोऽस्तिधनः । अव्ययत्वादस्त्यादीनां पूर्वनिपात: अ न्यपदप्राधान्याद्बहुव्रीहिः । अन्तरङ्गं यस्यासावन्तरङ्गः । बहिरङ्गः । उच्चैर्मुखः । तेन सहेति तुल्ययोगे । सहेत्येतत्तृतीया न्तेन समस्यते स तुल्ययोगबहुव्रीहिः ॥ सहादेः सादेिः । इति वक्ष्यमाणेन सकारः । पुत्रेण सह वर्तमानः सपुत्रः । सो वेति केचित् । सहपुत्रो वा गतः । तुल्ययोगवचनं प्राधिकम् । कर्मणा सह वर्तमानः सकर्मकः । सलोमकः । यस्य प्रधान स्थैकदेशो विशेषणतया यत्र ज्ञायते स तगुणसंविज्ञानो बहु व्रीहिः । लम्बौ कर्णौ यस्य स लम्बकर्णः । बहुव्रीहिरन्यार्थे । बहुव्रीहि (म. ए. ) त्रो० अन्यायें अन्यस्य अर्थोऽन्यार्थेस्तस्मिन् (स. ए.) अइए पश्चान्नामिनो रः द्विपदम् । सनासमध्यवर्त्तिपदापेक्षया