SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (२२६) सारस्वते प्रथमवृत्तौ। अन्यादीना विभक्तिलोपे कर्मव्यतिहारे पूर्वपदस्य संगागमो भवति । अन्योन्यमेकक्रियाकरणं कर्मव्यतिहारः । अन्यश्च अन्यश्च अन्योन्यं विप्रा नमन्ति । परश्च परश्च परस्परम् । परस्परमित्यत्र कस्कादित्वाद्विसर्गोपध्मानीयाभावः। अन्यादीनां शब्दानां समासे वर्तमानानां पूर्वपदवर्तिनों सगागम इति सकारस्य आगमो वक्तव्यः इति । श्रादिभूतयोरन्यपरशब्दयोः सगागमः कित्त्वादन्ते अन्यस्+अन्य इति स्थिते स्रो० अतोऽत्युः उओ पदोतोतः अन्योऽन्य (म.ए.) अतोऽमू अन्न पदान्तताश्रयणात् स्रो० एदोतोतः एतयोः सूत्रयोः प्राप्तिः अप्रधानमूतत्वात् श्त्वन्यादेरित्यपि न भवति अन्योन्यम् इति सिद्धम् । परम्पर मध्ये सका. रागमः स्वर० परस्पर इत्यत्र वाचस्पत्यादिवान विसर्मोपध्मानीयादि कार्य स्वर० परस्परः । उभयत्रापि पूर्वोक्तवाशब्देन एकवद्भावइति (म. ए.) एकत्वे द्विगुद्वन्द्वाविति क्लीबत्वात अतोम्, अम्शसोल्मोनु० अन्योऽन्यं परस्परमिति सिद्धं । अन्योs न्यादयःसहादिमध्ये पठिता इत्यन्ये । केचित्तु अन्योऽन्यमित्यत्र अन्यश्च अन्यश्चेत्येकशेषात्समासं नेच्छन्ति । किंतु कर्मव्यतिहारेऽन्यादीनां द्वित्वं वक्तव्यं समासवच्चबहुलं तत्र पूर्वपदे प्रथमैकवचनं उत्तरपदे द्वितीयैकवचनम् इत्पन्योऽन्यं परस्परं नमन्ति साधवः । क्षेमेन्द्राचार्यस्तु अन्यादीनां विभकिलोपे सक् कर्मव्यतिहारे वक्तव्यः। कर्मव्यतिहाराभावे तु अन्यश्च अन्यश्च अन्यौ इत्येकशेषसमासः इति व्याख्या ति । प्रक्रियाकौमुद्यां तु 'कर्मव्यतिहारे सर्वनानो द्वे स्तः समासवच्च बहुलं यदा तु समासवत्तदा प्रथमैकवचनं पूर्वपदस्य द्वितीयाचेकवचनान्तत्वं परपदस्य । अन्योन्यं विमा नमन्ति, अन्योन्येन कृतं, अन्योन्यस्मै ददाति, अन्योन्यस्मात् गृहन्ति, अ. न्योन्यस्य अन्योन्यस्मिन्, साधवः । एवं परस्परं । सांपतम्ऽलिङ्गविशेषमाह। सूत्रम्। एकवे द्विगुहन्दौ । एकत्वे वर्तमानौ द्विगुद्वन्द्वौ नपुंसकलिङ्गी भवतः । एकत्वेत्यादि । एकस्य भाव एकत्वं तस्मिन् ( स.ए. ) अइए द्विगुश्च द्वन्द्वश्व द्विगुद्वन्द्वौ (म.द्वि.) ओ औ औद्विपदम् एकत्व इति एकवचने वर्चमानौ द्विगुद्वन्द्वसमासौ नपुंसकलिङ्गौभवतः। तत्र द्विगुसमासे नित्यमेव । तत्र अकारान्तानित्यमीमत्ययः तत्र स्त्रीलिङ्गत्वमेव । अकारान्तवर्जितानां तु नपुंसकलिङ्गत्वमेव द्वन्द्वे तु इतरेतरयोगे द्विवचनमेव, पक्षे कुत्रचिदेकवचनमपि समाहारे वहुवचनमेव पक्षे कुत्रचिदेकवचनमपि तत्र यत्रैकवचनं तत्र नपुंसकलिङ्गमेव द्विवचन बहुवचनं तु यथासंभवं त्रि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy