________________
समासप्रक्रिया।
(२२५) अङ्गलिषः, भीरुष्ठानं मातृष्वसा, पितृष्वसा, इत्यादौ षत्वं एवमिन्द्रश्च बृहस्पतिश्चेत्यत्र इन्द्रशब्दस्याल्पस्वरत्वात् पूर्वनिपातः, विभक्तिलोपे उकार्थानामपयोगे च 'देवताद्वन्द्वे' इति इन्द्रस्य दीर्घः (म.द्वि.) भौयू इतीकारः सवर्णे इन्द्राबृहस्पती । एवं सूर्याचन्द्रमसौ, मित्रावरुणौ, उदाहरणान्युक्तानि । अग्न्यादेरिति वक्तव्यं - श्यते तच्च प्रागेव व्याख्यातम् । सांपवमितरेतरयोगद्वन्द्वस्य वचननियममाह । इवरेतरयोगे द्विवचन मिति । इतरेतरयोगे द्वन्द्वे द्विवचनं भवति पदद्वयात्मकत्वात् लि
नियमस्तु उभयपदपधानत्वेऽपि उत्तरपदलिङ्गप्रयोगो भवति । सांपतं समाहारद्वन्द्वे वचन विशेषमाह। एकवद्भावो वा समाहारे वक्तव्यः । समाहारस्यैकत्वात्समाहारे एकवद्भावः सिद्ध एव । तर्हि वाग्रहणं किमर्थम् । वाग्रहणात्वचिद्वयोरपीतरेतरयोगे एकवचनं क्वचिबहूनामितरेतरयोग एकवचनम् । शशाश्च कुशाश्च पलाशाश्च शशकुशपलाशा:-शशकुशपलाशम् ।
एकवद्भावो वा समाहारे वक्तव्यः । समाहारे द्वन्द्वे पदानां समासे कृते एकवद्भाव एकवचनं वाभवति । एकमिव एकवत् एकवचनं तस्य भावः एकवद्भावः । पक्षे पदानां समाहारत्वात् बहुत्वाद् बहुवचनं भवत्येव । एकवद्भावः समाहारे वा वतव्यः इति । अत्र समुदायार्थप्रधानविवक्षायामेकवचनं अवयवार्थमाधान्यविवक्षायां बहुवचनमपि निपातानामनेकार्थत्वात् वाग्रहणात् क्वचिदितरेतरयोगेऽप्येकवद्भावो भवतीति शेषः। यथा अहिन् । द्वित्वमतन्त्रमिति वचनाद्वा समाहारोदाहरणं यथाशश (म.ब.) सवर्णे० नो० च (म. ए.) अन्य एवं कुश (प.ब.) च (म.ए.) अव्य० पलाश (प. ब.) सवर्णे० स्रो० च (प.ए.) अव्य० शशाश्च कुशाश्च पलाशाश्व इति विग्रहे अत्र पदद्वयाधिकपद त्मकत्वात् समाहारद्वन्द्वः। समासमत्यययोरिति विक्किलोपे उक्तार्थानां चापयोगे शश कुश पलाशद्विस्थाने एकत्र समाहारे बहुत्वे (प. ब.) पलाशशब्दस्य वृक्षवाचित्त्वात्पुलिने (प. ब.) सवर्णे० स्रो० द्वितीयरूपे एकवद्भावो वा समाहारे इति एकवचनं (म. ए.) सत्यपि पुंस्त्वे एकत्वे. द्विगुद्वन्द्वाविति वक्ष्यमाणसूत्रेण क्लीबलिङ्गः। अतोऽम् अम्शसो० मोनु० । सांगतम् इतरेतरयोगेऽपि एकवद्भावोदाहरणमाह । अन्यश्च अन्यश्च इति विग्रहे तथा परश्च परश्चेति विग्रहे समासमत्यययोरिति उभयत्रापि विभक्तिलोपे उतार्थानां चापयोगे अन्य , अन्य' इति 'पर पर' इति स्थिते सति ।