________________
(२२४) . सारस्वते प्रथमवृत्तौ । (म. ए.) सोच (म. ए.) अव्यया० विसर्ज० स्तो.शु० पटुश्च गुप्तश्चैत्यत्र समस्वरत्वेऽपि उकारान्तस्य पूर्वनिपातः समासप्रत्यययोरिति सिलोपः। वत उक्तार्थानाममयोगः। उक्तोऽर्थो यैस्ते उक्तार्थाश्चकारादयस्तेषाममयोगोऽभावो, लोप इत्पर्यः । इति चकारलोपः। पटुगुप्त इति स्थिते नामसंज्ञायां स्यादिः।इतरेतरयोगात्मयमाद्विवचनं पटुगुप्तौं कार्य कुरुत इत्युक्ते पटुसहायो गुप्तः गुप्तसहापः पटुरिति गम्यते इ. त्यन्योन्यापेक्षाऽस्ति एकस्याभावे तन्न क्रियते एवमन्यत्रापि ज्ञेयं । पटुगुप्तौ इत्पत्र पटुशब्दस्य उकारत्वात् पूर्व निपातः। परं गुप्तपटू इति न भवति । दक्षामदाम हे पटु एवमेव अग्निश्च मारुतश्चेति अग्निशब्दस्याल्पस्वरत्वात इकारान्तत्वाच्च पूर्व प्रयोगः। पूर्ववद्विभक्तेश्चकारस्य च लोपः। ततः (म. द्वि.) तथा भोक्तृ (म. ए.) ओऔऔ भोक्तार यदादेशस्तद्वद्भवतीति न्यायात सेरा डित्त्वाहिलोपः इत्याोपः । स्वर० च (म. ए.) अव्य० भोग्य० (म. ए.) स्रो० च (म.ए.) अव्य० पश्चाद्विसर्जनी० स्तोः श्रुभिः श्रुः भोक्ता च भोग्यश्चेति विग्रहे भोक्तः प्रधानभूतत्वादोकृशब्दस्य प्रथम प्रयोगः। भोक्ता पुरुषः भोग्यं विषयादि वस्तु।ततो भोक्तः भोग्यस्प स्वामित्वात् प्रधा'नत्वा ततः मागवद्विभत्त्या लोपः। भोकृभोग्य (म. द्वि.) एवं धवश्च खदिरश्च धवखदिरौ इत्यत्र धवशब्दस्याल्पस्वरत्वात् प्रथम प्रयोगः। स्त्रीच पुरुषश्च स्त्रीपुरुषौ अत्र पुरुषस्य प्रधानत्वेऽपि अल्पस्वरत्वात् स्त्रीशब्दस्य पूर्वनिपातः । अथ द्वन्द्व एव विशेषमाह ।
देवताहन्दे पूर्वपदस्य वा दीर्घो वक्तव्यः । वाग्रहणात्क्वचिन्न भवत्यग्निमारतावित्यादौ । अग्निश्च सोमश्च ।
देवता इन्द्वे। देवतावाचकशब्दभवे द्वन्द्वसमासे पूर्वपदसंबन्धिनोऽन्त्यस्वरस्य वा दीवक्तव्यः। इति वाग्रहणत्वात् प्रयोगान्तरे न भवति । अथोदाहरणमाह अ. मिश्च सोमश्चेति विग्रहे विभक्तिलोपे उक्तार्थानामप्रयोगे च अग्निसोम इति स्थिते देवता द्वन्द्व इति अग्निशब्दस्य स्वरस्य दीर्घ ईकारः। द्वयोरपि देवतात्वात् अग्नीसोम इति स्थिते।
अग्यांदे सोमादीनां षत्वं वक्तव्यम् । अग्नीषोमौ इन्द्रश्च . बृहस्पतिश्च इन्द्राबृहस्पती। सूर्याचन्द्रमसौ।
अग्न्यादेः सोमादीनामित्यादि। अग्न्यादेः दीर्घनाम्यन्तात्परेषां सोमादीनां मध्यसकारस्य षकारो भवति । 'किलात्षः सः' कृतस्येत्यस्य न पाप्तिः, सकारस्य अकृत्त्वात् । अग्नीषोम (प. द्वि.) अग्नीषोमौ इति सिद्धम् । अत्र इकारान्तस्य पूर्वत्वम् अग्न्यादेरित्यादिशब्दात् अनिष्टोमः, अग्निनुत्, ज्योतिष्टोमः, आयुष्टोमा