________________
समासमक्रिया।
(२२३ मट गां चानयेति क्रमेण क्रियाद्वयसंबन्धेऽन्वाचये समासो नास्ति । नानां परस्परमसंबन्धात् । इतरेतरयोगे समाहारे चार्थे द्वन्द्वः समासो भवति ।।
चार्थे द्वन्द्वः। चस्पार्थश्चार्थस्तस्मिन् ( स. ए.) अइए द्वन्द्व (प्र. ए.) स्रो० द्विपदं सूत्रम् । अथैवत् सूत्रं व्याचिख्यामुश्चार्थान् चार्थेषु समाससंभवासंभवं चाह । समुच्चयः १ अन्वाचयः २ इतरेतरयोगः ३ समाहारश्चेति ४ चत्वारश्चार्थाः । तत्र कर्मद्वयस्य एकक्रियानिष्ठत्वं समुच्चयः १ । कर्मद्वयेऽपि प्रत्येकं क्रियाद्वयेन संबन्धोऽन्याचयः २ । पदद्वयेन द्वन्द्वः इतरेतरयोगः ३। बहूनां पदानां समवायः समाहा२४ । एते चस्प अर्था । तत्र अर्थचतुष्टयमध्ये समुच्चयान्वाचययोः समासो नास्तीति दर्शयत्यत्र । ईश्वरं च गुरुं च भजेत्यत्र कर्मद्वयस्यैकक्रियानिष्ठत्वे समुच्चये समासो नास्ति। अत्र चकारो भजनक्रियाया ईश्वरेण गुरुणा च संबन्धं द्योतयति इति। एकक्रियाभिसंबन्धाश्चार्थाः तस्मिन् वथा हे बटो मिक्षामट गां चानयेति अटनक्रियाया भिक्षा कर्म, आनयनक्रियायोगः कर्म, अत्र चकार एकस्य बटोः अटने आनयने च क्रियाद्वये संबन्धं द्योतयति। एवमेकस्य कर्तुः कर्मद्वपक्रियाद्वयसंबन्धे अन्वाचये च चार्थे समासो नास्ति । कुवः परस्परमसंबन्धात् अन्वययोग्यत्वाभावात् नाम्नामन्वययोग्यत्वे सत्येव समासविधानम् । अत्र क्रियानिरोधात् नाम्नां परस्परं संबन्धाभावात समासो नास्तीत्यर्थः। यत ईश्वरस्य गुरोः युगपद्भजनेऽसंबन्धः। तथा अन्वाचये भिक्षाटनस्य गवानयनस्य च परस्परमसंबन्धादन्वाचये समासो नास्तिाइतरेतरयोगे समाहारे च चार्थे संबन्धसंभवात् द्वन्द्वः समासो भवति। अन्योऽन्यं सापेक्षा द्वयोर्योगः एकक्रियाभिसंबन्धः इतरेतरयोगः बहूनां समुदायः समाहारः । अथ द्वन्द्वसमासे पदानां समानत्वात् कः शब्दः पूर्व योज्यः इत्याशंक्याह ।
द्वन्देऽल्पस्वरप्रधान कारोकारान्तानां पूर्वनिपातो वक्तव्यः । पटुश्च गुप्तश्च पटुगुप्तौ।इतरेतरयोगे द्विवचनम्ाचकारादीनामुक्तार्थानामप्रयोगः । अग्निश्च मारुतश्च अग्निमारुतौ । भो. क्ता च भोग्यश्च भोक्तभोग्यौ । धवश्व खदिरश्च धवखदिरौ।
द्वन्द्वेऽल्पस्वर इति । द्वन्द्वे द्वन्द्वसमासे प्रस्तावादितरेतरयोगे सदल्पस्वरं पदं समस्वरे वा पदद्वये यत्पधानं पदं तथा इकारान्तं उकारान्तं यत्पदं भवति तस्य पूर्वनिपातः मामयोगः कर्तव्यः। परं बहुण्वनियमः। अथ उकारान्तोदाहरणमाह । पटु (म. ए.) सो० च (म. ए.) अव्यया. विसर्ज• स्तोःश्चभिः० गुप्तः