________________
( २२२ )
सारस्वते प्रथमवृत्तौ ।
कारस्य अकारः अब्राह्मण (म.ए.) स्रो० अब्राह्मणः ब्राह्मणादन्य इत्यर्थः । पुनः । सूत्रम् ।
अन् स्वरे । समासे सति नञोऽनादेशो भवति स्वरे परे । अनादेशो ऽपदान्तवद्वाच्यः । तेन न इति न द्वित्वम् । अश्वादन्योऽनश्वः । धर्माद्विरुद्धोऽधर्मः । ग्रहणस्याभावोऽग्रहणम् । तदन्यतद्विरुद्वतदभावेषु नञ् वर्तते । तस्मादन्यस्तदI म्यः । तेन विरुद्धस्तद्विरुद्धः । तस्य अभावस्तदभावः । तदन्यश्च तद्विरुद्धश्च तदभावश्च तदन्यतद्विरुद्धतदभावास्तेषु नञ् वर्तते । इतितपुरुषः ।
अन् स्वरे । अन् (म.ए.) हसेपः। स्वर (स. ए. ) अइए समासे कृते सति मञ् इत्यस्य अन्यविरुद्धाभाववाचिनः स्वरे परे अन् आदेशो भवति अत्रापि नाकादि वर्जमिति योज्यम् । तदुदाहरणमाह । अश्व (पं. ए.) ङसिरत् सवर्णे० अन्य (म. ए. ) त्रो० धर्म्म० ( पं. ए . ) ङसिरत् सवर्णे ० विरुद्ध (म. ए. ) खो० ग्रहण (प. ए. ) ङस्स्य अभाव (म.ए.) सो० अश्वादन्यः धर्माद्विरुद्धः ग्रहणस्याभावइति विग्रहत्रयं । त्रिष्वपि पूर्वं नञ्प्रयोगः । उक्तार्थानामप्रयोगः अन्यविरुद्धाभावानां लोपः । समासप्रत्यययोरिति पञ्चमीषष्टीलोपः । अश्वशब्दे परे स्वपरत्वात् अनुस्वरे इति नञोऽनादेशः। स्वर० शेपोदाहरणद्वये प्राक् स्वरत्वाभावात् ना इति सूत्रेण नत्रः केवलोऽकारादेशः (म. ए.) स् उदाहरणद्वयं पुछिने, तृतीयं नपुंसके । एष्वर्थेषु नञ् प्रयुज्यते इत्याह तदन्येति । तस्मादन्यस्तदन्यः । तेन विरुद्धस्तद्विरुद्धः तस्याभावस्तदभावश्च एषु अर्थेषु नञ् प्रवर्त्ततेः नञ् शब्दः पूर्वं प्रयुज्यते इति भावः । सदन्य इति अश्वादन्य इति । तद्विरुद्ध इति तदभाव इति ग्रहणाभावः। एष्वर्थेषु पूर्वमुपसर्गरूपो नञ् भवति, तस्मिन् नभि पूर्वपदे तत्पुरुषसमासो भवतीत्यर्थः । सांप्रतं द्वन्द्वसमासो निरूप्यते ।
चार्थे द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थास्तेषु चार्थेषु द्वन्द्वः समासो भवति । तत्रेश्वरं गुरुं च भजस्वेति । प्रत्येकमेकक्रियासंबन्धे समुच्चये समासो नास्ति । वटो भिक्षा
१ अन्यच विथ अभावथेति द्वन्द्रः । द्वन्द्वान्ते श्रयमाण पद प्रत्येक संयम्यने इति 'याचिन इति शब्दस् प्रत्येकमन्वयः । अन्यवाचिनोविश्वाचिनो अभाववाचिनश्चेत्यर्थः ।