________________
समास क्रिया ।
(२२१ ) )
परिपक्कानि इत्यादी ऐकपचात् प्राप्तस्यापि णत्वस्यापवादः । एवं लौकिकमयोगवशात् ज्ञेयम् । अथ पुनस्तत्पुरुषं सूत्रेणाह ।
नञि । नञि पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः स मासो भवति ॥ नञ् । नत्र सुतेन समस्यते । नञ उभया..... र्थत्वं प्रसिद्धम् । तथा चोक्तं वार्तिककारेण । उभौ नञौ समाख्यातौ, पर्युदासप्रसह्यकौ ॥ पर्युदासः सहरग्राही, प्रसह्यस्तु निषेधकृत् ॥ प्राधान्यं तु विधेर्यत्र, प्रतिषेधेऽप्रधानता ॥ पर्युदासः स विज्ञेयो, यत्रोत्तरगतो न नं ॥ अप्राधान्यं विधेर्यत्र, प्रतिषेधे प्रधानता ॥ प्रसह्यप्रतिषेधोऽयं, क्रियया सह यंत्र नत्र ॥ न ब्राह्मणोऽब्राह्मणः ।
1
नञि । नञ् (स. ए. ) स्वर० एकपदमिदं यत्र नञ् इति निषेधवाचकमव्ययं पूर्वपदं भवति स नानामन्वयो विग्रहः तत्पुरुषसमासो भवति । न प्र. ए. ) अव्य- . यात्सिलोपः । ब्राह्मणः (म. ए. ) स्रो० नब्राह्मण इति स्थिते । 'ना। समासे सति नञोऽकारादेशो भवति. नाकादिवर्जम् । . नाक नक्र नग तनूनपात् नख नपुंसक नक्षत्र नकुल नासत्य नमुचि नर इत्यादि । नाक नमुचि नकुल नागर नासिका नमेरु ननान्द नभाग नान्तरीय नक्र नख नग नद नयाद नवाद नवेद नाऽसत्य नापित नहुष नक्षत्र इत्येते नाकादयः केनचिद्गणिताः । उभयथापि नाकादौ न भवति ।
ना । न (म. ए. ) अव्यया० अग्रे अ ( प्र. ए.) साङ्केतिकं० पश्चात्सन्धिः सवर्णे दीर्घः सह । ना इति द्विपदम् । समासे सति नमोऽकारादेशो भवति तत्रापि नाकादीन्वर्जयित्वा । नास्ति अकं दुःखं यस्मिन् स नाकः, नाग, नमुचि, नख, नक्षत्र, नपुंसक, नकुल, नग, नक्र, न भ्राट्, नासत्य नराव, नाचिकेत, नापित, नमेरु, ननान्द, नभस्वत्, नभो, नरंग, नास्तिक, नम, नभाग, नपानावेद, नातिविस्तरादयः शब्दा नाकादौ द्रष्टव्याः । इत्यत्र नञोऽकारादेशो न भवति । अनेन न