________________
.
.
r
..
. (२२०)
सारस्वते प्रथमवृत्तौ । क्वचिदमावन्तस्य परत्वम् । अग्नौ आहित इत्याहिताग्निः । पूर्व भूत इति भूतपूर्वः। पिशाचादेः समादीनां नपुसकत्वं वा। पिशाचानां समा इति पिशाचसभम्-पिशाचसभा। गृहस्थू- . णम्-गृहस्थूणा । शशोर्णम्-शशोर्णा । भिन्नपदे णत्वाभावस्तथापि, समासे क्वचिदैकपद्यं णत्वहेतुः । शराणां वनं शरवणम् । आंम्राणां वनमाम्रवणम् । संज्ञायां वात्रीणि नयनानि यस्यासौ त्रिनयनः-त्रिणयनः । पानस्य वा । सुग़याः पानं सुरापानम्-सुरापाणम् । क्वचिदमाद्यन्तस्यति तत्पुरुषसमासे वर्तमानस्य द्वितीयादिविभक्त्यन्तस्य पूर्वपदस्य परत्वमिति उचरपदत्वम् अग्रेवतित्वं भवति क्वचित्मयोगान्तरे न सर्वत्रेत्यर्थः। उदाहरणमाही अमि (सं. ए. )डेरौ डिस् डिवाहिलोपः। स्वर आहित (प्र. ए.) सो० अनौ आहित इति विग्रह तत्पुरुषसमासः। विभक्तिलोपे कृते अग्निपदमाहितपदस्याने प्रयुज्यते। सवर्णेस्रो० आहितामिरिति अग्निविषये आहितः स्थापितः एवं पूर्वस्मिन् काले भूत इति विग्रहे सप्तमीपर्थमयोलोपः कचिदमाद्यन्तस्य परत्वमिति भूत इति पदस्याने पूर्व इति पदं लिख्यते । (म. ए.) लो भूतपूर्व इति सि
यति । एवं दन्तानां राजा राजदन्तः क्वचिंदित्युक्तत्वात् अग्न्याहित इत्यपि भवति । अथ समासे पुनः ऐकपद्यस्य प्रयोजनान्तरमाह समासे क्वचिदैकपy णत्वहेतुः । यद्यपि भिन्नपदे णत्वाभावस्तथापि सर्मासविषये' कचित्मयोगेपूर्वपदस्थात् पकाररेफमवर्णरूपानिमित्तादुत्तरपदस्थनकारस्य णवंकरणे ऐकपचं हेतुः कारणं भवतीत्यर्थः। यथा आम्राणां वनम् आम्रवणं,शराणां वनं शरवणम इत्युभयत्रापि तत्पुरुपः समासः। विभकिलोपे एकपदत्वे रुनॊणोनन्ते इति पूर्वपदस्थात् व्यवहितरेफानिमिचादुत्तरवनपदसंबन्धिनो नस्य णत्वं (म. ए.) अतोऽम् अम्शसो. अत्र णत्यसंभवः। एवं प्लक्षवणं, खदिरवणम् । तथा त्रीणि नयनानि यस्य स त्रिनयनः इत्यत्र क्वचिदिति कथनादेकपदेऽपि न णत्वं । केचित्तु त्रिणयन:त्रिनयनः अत्रापिं विकल्पेन णत्वमिच्छन्ति ! पानस्पति पानसंबन्धिनो नस्य वा णत्वं भवति । सुरायाः पानं मुरापानं चेति विकल्पेन णत्वाएवं क्षीरपानं क्षीरपाणं । क्वचिदिति विशिष्टप्रयोगानुसारेण णत्वे नित्यत्वं विकल्पोऽपवादश्च ज्ञेयः । प्रवणम् अन्तर्वणं, पूर्वाहः, अपराण्हः खुरणसः, शूर्पणखा, इत्यादि नित्यं णत्वं, दूर्वावनं दुर्वावणं गिरिनदी गिरिणदी चनितम्वा चणितम्बा इत्यादौ विकल्पेन णत्वं । इन्द्रावाहना हरभामिनी प्रिययूना