SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ समासप्रक्रिया | ( २१९ ) अमादौ तत्पुरुषः । द्वितीयाद्यन्ते पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः समासो भवति । कृष्णं श्रितः कृष्णश्रितः । ग्रामं प्राप्तो ग्रामप्राप्तः । अन्वये इति किम् । पश्य कृष्णं, श्रितस्त्वं साधून् । दात्रेण छिन्नं दात्रच्छिन्नम् । यूपाय दारु यूपदारु । वृकेभ्यो भयं वृकभयम् । राज्ञः पुरुषो राजपुरुषः । अक्षेषु शौण्ड : अक्षशौण्डः । 1 अमादाविति । अम् आदिर्यस्यासौ अमादिस्तस्मिन् अमादौ (स.ए.) के रौ डित् । ङित्त्वाट्टिलोपः। अग्रे तत्पुरुषः (प्र. ए ) स्रो० अमादावित्यत्र जातावेकवचनं तेन अमाद्या द्वितीयाद्याः सप्तमीपर्यंताः षड्विभक्तयो ग्राह्या इति यस्य पदस्यान्ते द्वितीयाद्या विभक्तयो भवन्ति तस्मिन् पदे पूर्वपदे सति योऽन्वयो विग्रहः स तत्पुरुष-संज्ञकः समासो भवति। अत्रान्वयशब्दोऽन्वयप्रतिपादको विग्रहो ग्राह्यः । तत्र प्रथमं द्वितीयान्तस्य पूर्वपदस्योदाहरणं । ग्राम (द्वि. ए.) अम् । अम्शसो० मोनु० प्राप्त (म.ए.) स्रो० ग्रामं प्राप्त इति द्वितीयान्ते पूर्वपदे तत्पुरुषः । समासप्रत्यययोरम्स्पोर्लोपः। नामसंज्ञायां (प्र. ए ) खो० ग्राममाप्तः इति सिद्धम् । इति द्वितीयातत्पुरुषः । दात्रसाधने तृतीया । दात्र ( तृ. ए ) टेन अइए फेर्नो० । छिन्न (प्र. ए.) अतो अस् अम्शतो • मोनु० दात्रेण छिन्नमिति तृतीयान्ते पूर्वपदे तत्पुरुषः । पूर्ववद्विभक्ते लोपः । पुनरपि नामसंज्ञायां स्यादिः (म. ए. ) अतोऽम् । अम्शसो० मोनु० दात्रच्छिन्नमिति । इति तृतीयातत्पुरुषः । एवं यूप (च. ए. ) ङे ङेरक् एभय् सवर्णे ० स्वर• तादर्थे चतुर्थी यूपाय दारु (प्र. ए.) नपुंसकात् स्पमो० यूपाय यज्ञस्तम्भाय दारु काष्ठं । समासप्रत्यययोरिति + विभक्तिलोपः पुनः (द्वि. ए.) नपुंसकात् स्पमोर्लुक् अत्र चतुर्थीपूर्वपदतत्पुरुषः । वृक (पं. ब. ) भ्यस्, एस्मि बहुत्वे । भय (म. ए. ) अतोऽस् भयहेतौ पञ्चमीति वृकेभ्यो भयमिति विग्रहे विभक्तलोपादि पूर्ववत् ततस्तत्पुरुषस्य परपदप्रधानत्वात् भयशब्दः कीबलिङ्गः (म.ए.) अतो Sम् अम्शसो० । इति पञ्चमीतत्पुरुषः । तथा राज्ञः पुरुष इत्यत्र राजशब्दात् संबन्धे षष्ठी, राजन् (ष.ए.) अल्लोपः स्वर० स्तोःशुभिः • जनोई: स्वर० अग्रे पुरुषः (म.ए.) खो० राज्ञः पुरुष इति विग्रहे समासप्रत्यययोरिति विभक्तेर्लोपः । नानो नो लोपश्धाविति राजन् इत्यत्र नकारलोपः । ततो नामसंज्ञायां स्यादिः (म. ए.) स्रो० अत्र षष्ठीतत्पुरुषः । अक्ष ( स. ब. सुप् एस्भिबहुत्वे किला० अग्रे शौण्डः (म. ए., स्रो० अक्षेषु पाशकेषु शौण्डश्चतुरः । अत्र विषयार्थे सप्तमी । समासप्रत्यययोरिति त्रिभक्तिलोपादि पूर्ववत् अक्षशौण्ड इति सिद्धम् । सांप्रतं विशेषमाह । ०
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy