SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (२१६) सारस्वते प्रथमावृत्तौ । सिलोपः । अतिरि इति सिद्धं । एतत् कुठं अतिरि द्रव्य पूर्णमित्यर्थः । एवं एतब्बलम् अतिनु नौभिरपि वरीतुमशक्यमित्यर्थः । अन्ये त्वत्राव्ययीभावं नेच्छन्ति । किंतु अत्यादयः क्रान्ताद्यर्थे द्वितीयया सह समस्यन्ते समासश्च तत्पुरुषो भवति । तत्पुरुषइति तत्पुरुषमिच्छति तच्चिन्त्यम् । एवम् उपनदं, उपमधु, उपकर्तृ, अभ्पनि, प्र पनि, साग्नि, अनुगिरि, अनुवनम्, अनुज्येष्ठं, प्रत्यक्षं, परोक्षं, समक्षं, नायं निद्रा काल इति अतिनिद्रं, मध्येसमुद्रं, पारेगम, इत्यादि लोकात् ज्ञेयम् । यत उक्तं प्रक्रियाकौमुद्याम् अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भाव पश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्पान्तवचनेषु इति । विभकौ हरौ अधि प्रवृत्ता कथा इत्यधिहरि, समीपे कुम्भस्य समीपमुपकुम्भं, समृद्धी मद्राणां समृद्धिः सुमद्रं, व्यृद्धौ वृद्धेरभावो व्यृद्धिः । यवनानां ऋद्धेविंगमः दुर्यवनं, अर्थांमावे मक्षिकाणामभावो निर्मक्षिकं, अत्यये अतीतानि हिमानि निर्दिमम् संमति 'नायं निद्राकालोऽतिनिद्रं, शब्दप्रादुर्भावे इतिहरि हरिशब्द इति प्रकारेण प्रकाशत इत्यर्थः, पञ्चाद्विष्णोः पचादनुविष्णु देवाः, योग्यता, वीप्सा, पदार्थानतिवृत्तिसाह - श्यानि यथार्थाः । रूपस्य योग्यमनुरूपम्, अनुपूर्वं ज्येष्ठमनुकम्यानुज्येष्ठं, यौगपद्ये चक्रेण युगपदेहि इति सचक्रं, सादृश्ये सहराः सरूपा इति ससखि, संपतौ क्षत्राणां 'संपत्तिः सक्षत्रं, साकल्पे तृणेन सकलम् अचि इति सतृणं, अन्तवचनेऽभिग्रन्थपर्यन्तमधीते सानि, पुनरव्ययीभावस्य संभवमाह यथा शब्दः सादृश्यायें असादृश्यार्थे च वर्त्तते तत्र सादृश्यार्थे उपमानार्थे यथा शब्देन सह समासो न भवतीत्यर्थः । यद्वा योग्यता वीप्सापदार्थानतिवृत्तिसादृश्यानि इति यथाशब्दस्य चत्वारोऽर्थः । तत्र सादृश्यार्थं विहाय अन्येष्वर्थेषु वर्त्तमानस्य यथाशब्दस्यान्वितेन पदेन सह समासो भवति । बाधाभावो योग्यता । पदार्थानां व्यासुमीप्सा वीप्सा उदाहरणं यथारूपं चेष्टते रूपस्य योग्यं यथारूपम् इति योग्यता । यथावृद्धं प्रणमति ये ये वृद्धास्तांस्वान् प्रणमति इति । वीप्सा । शक्तिमनतिक्रम्य करोतीति यथाशक्ति एवं सू त्रम् अनतिक्रम्येति यथासूत्रम् इति पदार्थानविवृत्तिः । सादृश्ये तु न समासः । यथा विष्णुस्तथा शिवः । यथाऽसादृश्ये । यथाशब्दोऽसादृश्येऽर्थे वर्तमानः समस्यते, सोऽव्ययीभावः समासो भवति । योग्यतावीप्सापदार्थानतिवृत्तिः सादृश्यं चेति यथार्थाः । शक्तिमनतिक्रम्य करोतीति यथाशक्ति करोति । सादृश्ये किम् । यथा हरि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy