________________
समासमकिया।
(२१३) अग्रेवनपदस्य क्रियामिसंबन्धाधाद् द्विगुस्वत्पुरुषश्च एतौ परपदप्रधानौ । यथा पञ्चाना गवां समाहारः पञ्चगु इत्यत्र पश्चन् शब्दस्य संख्यावाचकस्प विशेषणत्वं । गोशब्दस्य विशेष्यत्वं । विशेष्यविशेषषयोर्विशेष्यस्य मुख्यत्वमिति गोशब्दस्य परंपदस्य प्रधानत्वं, तथा तत्पुरुषसमासे ग्रामं प्राप्त इत्यादीनां परपदानां प्रधानत्वं, यथा प्रामं प्राप्तस्तथा पुरं गृह, धनं, मुखं, माप्त इत्यादिषु पूर्वपदस्य परावृचिमद्विग्रहत्वास्परपदस्य च परावृत्त्यसहत्त्वाचत्पुरुषे परपदस्य प्राधान्यम् । एवं द्विगुतत्पुरुषयोः परपदस्य क्रियाभिसंबन्धार द्विगुवत्पुरुषौ परपदप्रधानौ तथा द्वन्द्वे कर्मधारये व उभयपदयोः क्रियाभिसंबन्धाद् द्वन्द्वकर्मधारयाबुभयपदप्रधानौ । यथा अमिश्च सोमश्व अमीषोमो वचैते इत्यादिषु पदद्वयस्यापि कियायाम अधिकारवाद्वन्द्वे उभप पदयोः प्राधान्य; तथा कर्मधारये, नीलं च तदुत्पलं चेत्यत्र विशेषगविशेष्ययोरेकाथनिष्ठत्वादन्योन्याश्रयभूतत्वाञ्च पदद्वयस्य माधान्यं, बहुव्रीहौ चान्यपदस्यमाधान्यं । यथा बहु धनं यस्यत्यत्र बहुधनस्य वस्तुभूतत्वं यच्छब्दस्य तु स्वामित्वमिति अन्यपदस्य प्राधान्यं तस्यान्यपदस्य क्रियाभिसंबन्धादिति । अथ बलाबलत्वमाह उभयपदमधानो बलवानिति । समासद्वपस्प संभवे प उभयपदमधानः समासः स बलवान् भवति । यथा निषादस्थपतिरित्यत्र निषादानां स्थपतिरिति तत्पुरुषे क्रियमाणे परपदमधानत्वं, तथा निषादचासो स्थपतिश्चेति कर्मधारये क्रियमाणे उभयपदमधानत्वम् । ततोऽन कर्मधारय एवोभयपदमवानलाइ बलवानतोत्र कर्मधारय एवं स्यात् नतु तत्पुरुषः । ननु विभक्तान्येव पदानि प्रयोक्तव्यानि किं समासेनेति समासस्य प्रयोजनमाह । ऐकपद्यमैकस्वयमैकवि- भक्तित्वं च समास प्रयोजनमिति । अनेकेषां पदानामेकं पदमिति तस्य भाव ऐकपचं, बहूनि पदानि द्वे वा पदे उच्चार्य विभक्तिलोपं कृत्वा समासखाद् या विभक्तिः क्रियते तस्यां कृतापामेकपदभावो भवति तदैकपर्छ, यद्वा एकशेषे द्वे त्रीणि वा पदान्युच्चार्य एकं पदं विशेष्यते तदैकपद्यम्, देवश्च देवश्च देवश्च देवाः । यथा अनेकेषां स्वराणामेकस्वरस्तस्य भाव ऐकस्वयं । यथा त्रियमधिकृत्य भवतीति विभागोच्चारणे प्रयत्नगौरवं स्यात्, समासेनोचारणे भयललाघवं स्यात् । इदमेकं भयोजनम् । एकपद्यात् शरवणादौ णत्वमपि प्रयोजन, तथा वैदिकपक्रिया प्रसिद्धोदाचादिस्वराणाम् ऐकस्वयं च मयोजनम् । अनेकासां विभक्तीनामेका विभतिस्तस्या भाव ऐकविभक्तित्वं समासस्य प्रयोजनमिति । शशाश्च कुशाच पलाशाश्व इत्यत्र समासकरणे पदाय, विमचिलोपानंतरं त्रयाणामपि पदानामेकं पदम्, तथा समासे किंचित्पदमुदाचस्वरेण किंचित्स्वरितपदेनोच्चार्यते। ततः समासे कृते एकस्वरेणैवोच्चारणं, तथा विभक्तित्रयस्याप्पैकपदत्वे एकैव विभक्तिरित्यकविभक्तिकत्वमिति