SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ समासप्रक्रिया। भूतानां पदानाम् अर्थवदित्यादि । अर्थः प्रथमादीनां लिङ्गादेः सोऽस्त्यासामित्यर्थवत्यस्ताश्च वा विभक्तयश्च अर्थवद्विभक्तपस्वाभिर्विशिष्टानि युक्तानि अर्थवद्विभक्तिविशिष्टानि तेषाम् । यद्वा, अर्थवन्ति च तानि विभक्तिविशिशनि च अर्थमिक्तिविशिष्टानि तेषाम् । अथ समासस्य याथातथ्यमाह । सूत्रम्। समासश्चान्वये नानाम् । नानामन्वययोग्यत्वे सत्येव समा सो भवति । चकारातद्धितोऽपि । ततो भार्या पुरुपस्येत्यादौ समासो न भवति । स च षडिधः । अव्ययीभावस्तत्पुरुषो द्वन्द्वो बहुव्रीहिः कर्मधारयो द्विगुश्चेति । अव्ययस्य अव्ययेन वा भवनं सोऽव्ययीभावः ॥ १॥ स एवाग्रिमः पुरुषः प्रधानं यस्यासौ तत्पुरुषः॥२॥ द्वन्द्वायते उभयपदाथों येनासौ इन्दाबहु समातिरिक्तं व्रीहिः प्रधानं यस्मिनसौ बहुव्रीहिः॥४॥ कर्मभेदकंधारयतीति कर्मधारयः॥५॥ द्वाभ्यां गच्छत्तीति द्विगु॥६॥पूर्वपदप्रधानोऽव्ययीभावाद्विगुतत्पुरुषौ परपदप्रधानौ । द्वन्द्वकर्मधारयौ चोभयपदप्रधानौ । वहुव्रीहिरन्यपदप्रधानः । यत्रानेकसमासप्राप्तिस्तत्र उभयपदप्रधानो बलवान् । तस्य क्रियाभिसंबन्धात् । यत्रै कस्मिन्समसितेपदेऽनेकसमासप्राप्तिस्तद्विषयमिदमानिषा-- दस्थपति याजयेदित्यत्र तत्पुरुषवहुव्रीहिकर्मधारयप्राप्तीसत्या निर्णयमाह । समानाधिकरणव्यधिकरणयोर्मध्ये समानाधिकरणो वलवान । एकविभक्त्यन्तत्वमेकार्थनिष्ठत्वं वा . सामानाधिकरण्यमानीलं च तदुत्पलं च नीलोत्पलम् । भिनविभक्त्यन्तं भिन्नार्थनिष्ठत्वं वा वैयधिकरण्या ऐकपद्यमैक-. स्वयमकविभक्तिकत्वं च समासप्रयोजनम् । अपि स्त्री इति स्थिते । स्त्रीशब्दाद्वितीयैकवचनम् । स्त्रियमधिकृत्य भवतीति विग्रहेऽन्वययोग्यार्थसमर्पक पदसमुदायो विग्रहो वा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy