SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (२१०) सारस्वते प्रथमावृत्तौ। त्र कृतोक्तत्वात् प्रथमा । छन्दसि कारकानियममाह छन्द छन्दसि वेदविषये स्पादिर्विभक्तिः सर्वत्र सर्वस्मिन्नर्थे व्यत्ययेन च भवति। तत्रार्थत्वान्न विभक्तिनियम इत्यर्थः। उदा० दना जुहोवीति । दधि जुहोतीति द्वितीयासंभवे छान्दसत्वात् द्वितीयास्थाने तृतीया । भोपूजका ब्रह्मणस्पतिरिति ब्रह्मणस्पति पुनन्तु ब्रह्माणं प्रक्षालयन्तु इति द्वितीयार्थे प्रथमा । 'बजतीविरेजुः' इत्यत्र व्रजन्त्योगोप्यो विरेजुरिवि पथमाबहुवचनसंभवे द्वितीयाबहुवचनम्।उक्तं च भागवते दशमस्कन्धे पञ्चमाध्याये कृष्णजन्माधिकारेनन्दालयं सबलयो ब्रजवीविरेजुः। एवमन्यान्यपि छान्दसोदाहरणान्यवसेयानि। ग्रन्थगौरवभयान लिख्यन्ते । शेषं सुगमम् । अथ विभक्तीनां केचिदर्थाः समाहृत्योच्यन्ते । सामालिङ्गवचनपरिमाणकर्तृसंबोधनान्योक्तेषु प्रथमा । कतरि तृतीयान्ते सति कर्मणि प्रथमा स्यात् इत्यर्थः । कर्मण्यभितः, सर्वत, उभयतः, परितः, पति, स. मया, निकषा, हा, अनु, धिग, उपर्युपरि, अधोऽधः, अध्यधि, विना अन्तरेण, 'अन्तरा, स्मरतो, कालाध्वनोनरन्तर्ये, शतृशानुकसुकानइष्णुस्नुल्कातुम्क्पपयोगे, क्रियाविशेषणे च द्वितीया । कर्तृसाधनयोः सहसदृशसाकंसार्द्धविनेत्यंतद्भावयेनाविकारवारणार्थालंयोगनिषेधार्थकृतादियोगहेतुतुल्यार्थादिषु तृतीया । दानपात्रे, नमः स्वस्तिस्वाहास्वधावषट्तादर्थ्यक्रुधादिरुच्यर्थादिधातुयोगसमर्थार्थालंयोगे, बलिरक्षितहितशब्दयोगोत्सातजापितेषु चतुर्थी । विश्लेषावधौ ,ऋतेअन्यादिविनापृथभिनेतर प्रभृत्यारभ्यबहि शब्दयोगहेत्वर्थजनिकर्तृमर्यादादियोगक्लोपभयहेतुविद्याख्या तृप्रभूत्यर्थेषु पञ्चमी । संबन्धनिद्धारणेस्वामित्वकर्तृकार्यस्मरणार्थहेतुशब्दप्रयोगतुल्यार्थानादरादिषु षष्ठी । आधारभावस्वामित्वनिमित्चविषयानादराधीत्यादिष्वथेषु सप्तमी । छन्दसि सर्वा विभक्तयः सर्वेष्वर्थेषु व्यत्ययेन च भवन्ति । जातावे. कवचन बहुवचनवद्भवति । एको द्वौ वास्मदो विशेषणे बहुवद्भवतः । गुरौ च एको द्वौ बहुवद्भवतः इत्यादि ज्ञेयम् । यथात्र देशे प्रचुरो यवो नो पद्य, तथाऽहम् आवा एतयोरर्थे वमिति भवति । तथा एकस्मिन्नपि गुरौ परे गुरव इति बहुवचनं भवति । • ॥ इति संक्षेपतः कारकमक्रियाविवरणं समाप्तम् ।। अथार्थवद्विभक्तिविशिष्टानां पदानां समासो निरूप्यते । अथ समासपारम्भः । तत्र प्रथमं परिभाषामाह । अथार्थत्यादि । अथवा अर्थ वि कारककथनानन्तरं समासो निरूप्यते इति संबन्धः । तत्र समसनम् अनेकेषां पदानामक पदमित्यादि यत्संक्षेपणं स समासो निरूप्यते कथ्यते । केषां पदानां, स्यादि विभक्तयन्तानां । एवंविधानां पदानां समासो निरूप्यते कथ्यत इति योगः। कथ:
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy