________________
कारकमक्रिया। ' (२०९) कर्ता स णौ । गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणो यः कर्ता स णौ कर्म स्यात् । शत्रूनगमयत्स्वर्ग वेदार्थ स्वानबोधयत् ॥ आशयच्चामृतं देवान्वेदमध्यापयविधिम् ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिगतिः॥ गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् ॥ 'बुद्धिभक्षार्थयो शब्दकर्मणां च निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः॥ गौयते पयः। अजा ग्राम नीयते । बाध्यतेमाणवको धमम्। माणवको बालः । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मणां च कर्मणि भावे च लकार इष्यते । मासं आस्थते देवदत्तेन । णिजन्तातु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः । तत्प्रयोजको हेतुश्च । कर्तुः प्रयोजकः कर्तृसंज्ञो हेतुसंज्ञश्च स्यात् । स्वाथै परित्यज्य अन्यायाभिधायित्वमुपसर्जनत्वम् । क्रियाजन्यफलशालित्वं कर्मत्वम् । साक्षात्संबन्धेन क्रियान्वयित्वं मुख्यत्वम् । परम्परासंबन्धेन क्रियान्वयित्वं गौणत्वम् ॥ इति कारकप्रक्रिया ॥
अन्योक्तेति। अन्योक्ते अन्येन उक्तमन्योक्तं तस्मिन् (स. ए.) अइए । प्रथमा (म. ए.) आपइवि सिलोपः । सिद्धं सूत्रम् । अन्योक्त इति पदं व्याचष्टे यदिति । यदिदं कार्यादि कारकं । अन्येनेति कोऽर्थः, अन्येन कर्मोक्तिभावोक्तिसंबन्ध्याख्यातेन द्वितीयवृत्त्युक्तसूत्रनिष्पनेन प्रत्ययान्वधातुरूपेण कृता च पुनः कर्मोक्तिसंबन्धिकृदन्तमत्ययेन तृतीयवृचिसाधितशब्देन चशब्दात् समासेन तद्धितेन च यदुक्तं भवति तदा कर्मणि प्रथमा विभक्तिर्भवति । अर्थात् यत्र तृतीयान्तः कर्चा तत्र कर्मणि पथमा भवतीति भावः । उदा० कुम्भकारेण घटः क्रियते इत्यत्र घटस्य कार्यवास्क्रियते इत्याख्यातोक्तत्वन कर्मणि प्रथमा। एवं 'कारुकेण कटः कार्यः' इत्य