________________
(२०८ )
सारस्वते प्रथमवृचौ
उक्तकर्तृप्रयोगोऽयं न तदा यक् प्रयुज्यते ॥ तृतीया कर्तरि यदा कर्मणि प्रथमा तदा ॥ उक्तकर्मप्रयोगोऽयं न तदा परस्मैपदम् ॥ स्वतन्त्रः कर्ता । क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् । प्रधानीभूतधात्वर्थाश्रयः कर्ता । साधकतमं करणम् | क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । कर्तृकरणयोस्तृतीया । अनभिहिते कर्तरि करणे च तृतीया स्यात् ॥ अकथितं च । अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्याच्पज्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ॥ कर्मयुक् स्यादकथितं तथा स्यानीहृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णी कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । वलिं याचते वसुधाम् | अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान शतं दण्डय1 ति । व्रजमरुणद्दि गाम् | माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते, शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मध्नाति । देवदत्तं शतं सुष्णाति । ग्राममजां नयति, हरति, कर्पति, वहति वा । अर्थनिबन्धनेयं संज्ञा । वलिं भिक्षते वसुधाम् । माणवकं धर्मं भापते, अभिधत्ते, वक्तीत्यादि । अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञः स्यादिति वाच्यम् । कुरून्स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि