________________
कारकमकिया। बरं हस्तिनं हन्ति, केशेषु केशनिमिचं चमरी मृग विशेषं हन्ति, सीन्नि सीमायां सीमानिमिचं केनापि पुरुषेण पुष्कलको नाम क्षुद्रग्रामाधिपतिः हतो मारितः । पुष्कलकः कीलको वा हतः । निपातकालः पुष्कलकः ।
विषये च । त चतुरः।
विपये चेति । विषये विषयार्थे ग्राह्येऽर्थे वाच्यमाने सप्तमी विभक्तिर्भवति उदा० तर्के तर्क विपये चतुरो निपुणः । अत्र तर्कः क्रियाश्रयत्वाभावानाधिकरणम् । वतो विषये सप्तमी।
षष्ठीसप्तम्यौ चानादरे । वहूनां कोशतां गतश्चौरः । पित्रो रुदतोः प्रव्रजति पुत्रः । बहुव्वसाधुषु वदत्स्वपि स्वयमार्यों याति साधुमार्गेण । वहुषु साधुषु वदत्स्वपि स्वयमनार्योऽसाधुमार्गेण ।
पष्ठोति । अनादरे क्रियमाणे सवि षष्ठी सप्तमी च भवति । तत्रोदाहरणं, वहूना जनानां क्रोशतां फूत्कुर्वतां स चौरो गतः । बहुन् जनानाकुशतोऽवज्ञाय अनादृस्पेत्यर्थः । बहुषु असाधुषु निवारयत्सु सत्स्वपि निषेवपत्स्वपि आर्यः साधुः स्वयमात्मना साधुमार्गेण धर्ममार्गेण यातीत्पत्रानादरे सप्तमी । बहुषु साधुषु जनेषु वदत्तु सत्स्वपि कथयत्स्वपि अनार्योऽसाधुः स्वयमात्मना असाधुमार्गेणासमीचीनमार्गणाधर्ममार्गेण दुराचारेण याति । बहुषु साधुषु जनेष्वनादरं कृत्वा बजतीत्यर्थः। एवं मातापित्री रुदत्तोः सतोः प्रव्रजति पुत्रः । मातापित्रोरनादरं कृत्वा दीक्षा गृण्हाति इत्यपि ज्ञेयम् । इगन्ते कर्मण्यपि सप्तमी' अधीती व्याकरणे । सूत्रम् ।
अन्योक्ते प्रथमा । यदिदं कार्याद्यन्येनारख्यातेन कता चोक्तं भवति, तदा प्रथमा प्रयोक्तव्या । घटः क्रियते । घटःकाथैः । प्राप्तमुदकं यमिति प्राप्तोदको ग्रामः । छन्दति स्यादिः सर्वत्र । दधि जुहोतीत्यस्मिन्न] दांना जुहोति । पुनन्तु ब्रह्मणस्पतिः । बजतीविरेजुः । कर्ता कर्म च करणं संप्रदानं तथैव च ॥ अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ द्वितीया कर्मणि ज्ञेया कतरि प्रथमा यदा॥