________________
१२०६)
सारस्वते प्रथमची पसगर्याश्चे क्रुघट्टहोर्योंगे चतुर्थीप्रतिषेधो वक्तव्यः । क्रूरमभिकुध्यति, मित्रमभिदुछाति चकारात् श्लाघ, शप, स्था, धून, स्पृहादीनां रुच्यर्थानां च तृप्यमानात, चनुर्थीति सूचितम् । भगवते श्लाघते, मदनाय शपते, मित्राय तिष्ठति, पत्न्यै धारयवि भूषणानि पतिः, कृष्णाय स्पृहयति गोपी, क्षुधिवाय रोचते अन्नम्, इत्यादि ज्ञेयम् । 'लोकानां शुभाशुभसूचको भूतादिविकार उत्पातस्तत्रापि चतुर्थी' वाता• प कपिला विद्युत् वातोत्पात ज्ञापिका इत्यर्थः। तुमन्त लोपे चतुर्थी । फलेभ्यो याति फलान्याहतु यातीत्यर्थः । 'तुमर्थाच्च भाववचनात् 'यागाय याति, यष्टुं यातीत्यर्थः । 'मन्यतेः कर्मण्यनादरे वाचतुर्थी'न त्वां तृणं मन्ये, नवांतृणाय मन्ये । 'गत्यर्थकर्मणि द्वितीपनाचतुथ्यौँ' बजाय व्रजति, व्रज व्रजति ।
क्यब्लोपे कर्मण्यधिकरणे च पञ्चमी वक्तव्या । हास्प्रेक्षते । हर्म्यमारुह्य प्रेक्षत इत्यर्थः । आसने उपविश्य प्रेक्षते इत्यर्थः। क्यबर्थो दृश्यते यत्र क्यबन्तं नैव दृश्यते ॥ तदेव हि क्यब्लोपित्वं ज्ञातव्यं च सदा वुधैः॥ 'क्यब्लोप इति । क्यबर्थों वाच्यमानः क्पपश्च अप्रयोगः स क्यब्लोपस्तस्मिन्नर्थे पञ्चमी वक्तव्या। यतः, क्यवों श्यते यत्र क्यबन्तं न प्रयुज्यते । स एव हि क्यब्लोपः स्यादिति प्रोक्तं मनीषिभिः। क्यब्लोपे कर्मण्यधिकरणे पञ्चमी वक्त ध्या । उदा० हात प्रेक्षत इति । कोऽर्थः, हम्यं गृहमारुह्य प्रेक्षते पश्यतीत्यर्थः। अत्र आरुह्येति क्यप्पत्ययान्तं पदं, तस्य लोपो हादिति पश्चमी। एवम् आसनावदवि भासने उपविश्य वदतीत्यर्थः । सप्तमीमाह । निमित्ताकर्मयोगे सप्तमी च वक्तव्या। चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ॥ केशेषु चमरी हन्ति सीनि पुष्कलको हतः ॥ गुदमेद्रान्तरालाङ्गं सीमेति मोच्यते वुधैः॥ पुष्कलो मृगभेदः स्यादन्यः सौगन्ध्यहेतुकः॥ निमित्तादिति । निमित्वं नाम पञ्चमोऽधिकरणभेदस्तस्मानिमित्तात् । यता निमिचात् प्रयोजनवाचिनः शव्दात् कर्मयोगे सति सप्तमी वक्तव्या । तत्रोदाहरणं धर्मणीति | चर्मनिमिचं दीपिनं वित्रकं हन्ति विनाशयति, दन्तयोईन्त निमिर्च, कु.