________________
कार कमक्रिया ।
(२०५) मादक अभिव्याप्य वा देवो मेघो दृष्ट इत्यर्थः । पर्यपाभ्यां वर्जने पञ्चमी । परित्रिगर्तेभ्यो दृष्टो देवः । अपत्रिगर्तेभ्यो देवो दृष्टः । त्रिगर्त्तदेशान् वर्जयित्वा दृष्ट इत्यर्थः । राज्ञि मेघे सुरे देव इति अनेकार्थः ।
विद्यास्वीकारे । आख्यातुः पञ्चमी स्यात् । उपाध्यायादधीते ।
विद्यास्वीकारे । आख्यातुः पञ्चमी स्यात् उपाध्यायादधीते । तादर्थे चतुर्थी वक्तव्या ।
संयमाय श्रुतं धत्ते नरो धर्माय संयमम् ॥ धर्म मोक्षाय मेधावी धनं दानाय भुक्तये ॥ आशिषि चतुर्थी । राज्ञे चिरं सौभाग्यं भूयात् ।
अथ पुनश्वतुर्थी माह ताद इति । सो ऽर्थो यस्य तचदर्थं तस्य भावस्ता - दं । यद्वा, स एव अर्थस्तदर्थस्तस्य भावस्तादथ्यं, यद्वा तस्मै कार्याय इदं कारणं तदर्थं तस्य भावस्तादर्थं तस्मिस्तादर्थे वाच्यमाने चतुर्थी भवति । तत्रोदाहरणं श्लोकेन संयमायेति । नरो मनुष्यः श्रुतं शास्त्रं धत्ते धारयति। कस्मै, संयमाय संयमार्थमित्यर्थः । धर्माय धर्मार्थं संयमं धते । मेधावी बुद्धिमान् मोक्षाय मोक्षार्थं धर्मं धत्ते । नरो दानाय दानार्थ तथा भुक्तये भोगाय च धनं धत्ते । अत्र संयमादीनां तादयें चतुर्थी ।
•
क्रुधदुहेसूयार्थानां प्रति कोपः । क्रुधाद्यर्थानां प्रयोगे यंप्रति कोपः स संप्रदानसंज्ञकः स्यात् । हरये क्रुध्यति हुयति ईर्ष्यति असूयति । गृहादयोऽपि कोपप्रभवा एव गृह्यन्ते । सोपसर्गयोः क्रुधद्रुहोर्योगे द्वितीया वक्तव्या । क्रूरमभिक्रुष्यति । मित्रमभिद्रुह्यति । अपवादमारोयति । क्रुधादिधातुयोगेऽपि चतुर्थी । कुधि, हद्दि, ईर्ष्या, असूया, श्लाघ्, हुए, स्था, शपू धारि, स्पृह, एते क्रुधादयः । क्रूराय क्रुध्यति, क्रूरं प्रति क्रोध इत्यस्मिन्नर्थे क्रुधधातुयोगे क्रूराय इत्यत्र चतुर्थी, आदिशब्शन्मित्राय दुह्यति, गुणवते पुरुषाय असूयतीत्यादिरोषवाचकधातुयोगे चतुर्थी । पुत्राय कुप्यति दुष्टाय कर्ष - वीत्येवमादयः । गुणेषु दोषारोपोऽसूया, परसंपत्स्यसहनम ईर्ष्या इति भेदः । ' सो