SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (२०४) ... सारस्वते प्रथमवृचौ अनेनेत्ययविकारः (म.ए.) स्रो० पश्चात् सवर्णे सिद्धं सूत्रं येन विकृतेनालेन अक्ष्णादिना अङ्गिनः शरीरिणोडविकारः शरीरविकृतिर्लक्ष्यते ज्ञायते, तस्माद्विकृतादङ्गात् तृतीया विभक्तिर्भवतीति । तत्र विकृतत्वं द्विविधं न्यूनत्वेन आधिक्थेन चेति । न्यूनत्वं व्याचष्टे । अक्ष्णा नेत्रेण काणः, पादेन खलः, शिरसा मस्तकेन खल्वाटः केशरहितः, करेण कूणिः न्यूनत्वविकृरिदमुदाहरणचतुष्टयम् । एवं मुखेन त्रिलोचनः । वपुषा चतुर्भुजः इत्येतद्दाहरणद्वयमाधिक्यविकतं ज्ञेयम् । अथ पञ्चम्या अर्थान्तरमाह । सूत्रम्। जनिकर्तुः प्रकृतिः । जायमानस्य कार्यस्योपादानमपादानसंज्ञं भवति । तत्रापादाने पञ्चमी । यस्मात्प्रजाः प्रजायन्ते, तद्ब्रह्मेति। जनि कर्तुरिति । जनेर्जन्मनः,पद्वा जने तोः क्रियापदस्य कर्चा उत्पद्यमानवस्तुजनिकी तस्य (प.ए.) तो डउः अस्य उः वित्त्वाहिलोपः । स्वर० स्रो०! प्रकृति (म. ए.) सिद्धं सूत्रम् । 'जनिकर्तुः प्रकृतिरपादानम्' इत्थं वा सूत्रम् । अथ वृत्तिः ।जनि कर्तुरिति कोऽर्थः । जायमानस्य जायमानम् उत्पद्यमानं यत्कार्य तस्य। प्रकृतिरिति कोर्थः, उपादानं मूलकारणं तदपादानसंज्ञं भवति । तत्र अपादाने पञ्चमी विभक्तिर्भवतीति शेषः। अर्थात् जने तोर्जनिक्रियाया जननं जनिरुद्धव इति जनेरुत्परिर्थः कर्चा सजायमानः सन् कार्य भवति । तस्य प्रकृतिः कारणं तत्र पञ्चमी । उदा० यस्मात् मनाः प्रजायन्ते त्यभिधीयते । प्रजायन्ते इति जनिधातुपदं, प्रजा इति जनिकर्तृपदं जायमानकार्यत्वात् तस्य प्रकृविर्यच्छन्दनिर्दिष्ट ब्रह्म ततो यस्मादिति मूलकारणत्वात् प्रकृतिपदस्य पञ्चमी । 'आादियोगे। आङादियोगे पञ्चमी विभक्तिर्भवति आडू मर्यादायामभिविधौ च । अपपरी वर्जने, एते आडादयः। आपाटलिपुत्रादृष्टो देवः ।आबालेभ्यो हरिभक्तिः।आदिशब्दात्परित्रिगर्तेभ्यो दृष्टो देवः। अपत्रिगतेभ्यो वृष्टो देवः। आपसर्गादियोगेऽपि पञ्चमी। आदिशब्दात् आङ् अपपरियोगे भार उपसर्गों मर्यादायाम् अभिविधौ च वर्चते । तत्र तेन विनेति मयांदा, तेन सहेत्यभिविपिरिति भेदः । तत्रोदाहरणं आपाटलिपुत्रादिति । पाटलिपुत्रं नगरं मयाँदीकृत्य तः
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy