________________
स्वरसंधिमकियां ॥२॥
(१७) अन्नप्ररोचनार्थाय दयानय वरानने ॥ कृतस्य कारणं नास्ति मृतस्य मरणं नहि ॥ पिष्टस्य पेषणं नास्ति द्वितये त्रितयं नाहे ॥ गौरी अत्र इति स्थिते । इयं स्वरे गौर य् अत्र तावद्भवति । यत्वे कृते अर्ह
इति विशेषणान्न रेफस्य द्वित्वं । किंतु स्वरहीनमिति । स्वरेण हीनं रहितं यदक्षरं तत् परेण अग्रस्थिवेन सस्वरेण वर्णेन सहसंयोज्यं दयानयेति सिद्धं । ईकारोदाहरणमाख्याय ईकारोदाहरणमाह । गौरी+ अत्र । इयं स्वरे । गौर+य+अत्र इति जातं । ततोऽर्ह इति सूत्रोक्तहसविशेषणात रेफहकारयोविवर्जनात्र रेफस्य द्वित्वं न भवति । ततः किं कर्तव्यमित्याह सूत्रम्।
- राधपो दिः। . स्वरपूर्वाद्रेफात्परो यपो विर्भवति । इति यपस्य द्वित्वं । गौर य य् अत्र । स्वरहीनं परेण संयोज्यम् । जलतुम्बिकान्यायेन रेफस्योर्ध्वगमनम् ॥
तुम्बिका तृणकाष्ठं च तैलं जलसमागमे ॥ ऊर्ध्वस्थानं समायान्ति रेफाणामीदृशी गतिः॥ रेफः स्वरपरं वर्ण दृष्ट्वारोहति तच्छिरः॥
पुरः स्थितं यदा पश्येदध-संक्रमते स्वरम् ॥ गौयंत्र। स्वर इत्यनुवर्तते । एवमन्यत्रापि यत्र न सूत्राक्षरः कार्यसिद्धिस्तत्र सर्वत्र सूत्रान्तरात्पदान्तरानुवनिातव्या । यन्यभूयस्त्वभयान लिख्यतेऽस्माभिः। रात् (पं.ए.)। सिरत सवर्णे। यपष. ए.)।स्रोद्विः । द्वित्रिभ्यांमः।समो. अव्ययाद्विभक्तेलुकमध्ये चपाअबेजबाःयपः अग्रे दिः सिद्धं स्वर० पूर्व आदौ स्वरोयस्य स स्वरपूर्वस्तस्मात्स्वरात्परस्तस्माद्रेफात्परोऽग्रस्थोयपो द्विर्भवति इतियकारस्प द्वित्वं ।जलेति। यथा तुम्बीजलस्योपरि विष्ठति तथा रेफोऽपि वर्णस्योपरि गच्छति न अधः । स्वर गौयंत्र इति सिद्धं । केचित्तु दीर्घस्वरामस्थात् रेफात्परस्प यपस्य