________________
(१८)
सारस्वत प्रथमवृत्तौ । द्वित्वं नेच्छन्ति तन्मते गौर्यत्रेति सिध्यति । स्वरइति । इतोऽग्रे स्वरसन्धि यावत् सर्वेध्वपि सूत्रेषु 'स्वरे' इति पदमनुवर्तते अन्वागच्छति अनुक्तमपि शेयमित्यर्थः । यथा इयंस्वरे इत्यंत्र स्वरे इति पदं तथा उवमित्यादिषुप्राग्वत् इति ज्ञेयम् । एवमिति। एचममुना मकारेण अन्यमयोगेष्वपि यत्र केवलसूत्राक्षः कार्यसिद्धिर्न भवति तत्र भयोगे सूत्रान्तरादन्यसूत्रात पदान्तरस्यान्यपदस्यानुत्तिर्जेया । ननु बालानां बोधाय भवद्भिरनुवृचिरपि कुतो न लिख्यत इति चेत्तत्राहग्रन्थति । ग्रन्थस्य शास्त्रस्य भूयस्त्वमयात्माचुर्यभयात् सूत्रे सूत्रे तत्चत्सदमस्माभिर्न लिख्यते । केचित्तु आमिः सरस्वतीभिर्न लिख्यन्ते स्म इति व्याकुर्वन्ति । शेषं सुगमम् ॥ सूत्रम् ।
. उवम्। उवर्णों वत्वमापद्यते स्वरे परे । हसेहंसः । झबेजबाः। मधु+ अत्रामध्वत्र । मधु+अरिसमध्वरित मधु आसनं मध्वासनम्।
उसाङ्के । यद्वा उश्च ऊश्च ऊो नपुंसकस्येति हस्वः । नपुंसकात् स्यमो क । व (वि.ए.) अम्शसो। मोऽनुस्वारः। तपरग्रहणं कारग्रहणं च विना वर्ण एव गृह्यते तेन उइत्युक्ते उवर्णः उकारोकाररूपः वत्वं वकारत्वमाप्नोति स्वरे परे । मधु+अत्र । अत्र उ वमिति उकारस्य वकारः। हसेहसः । इति धकारस्य द्वित्वं । झबे जबाः। इति पूर्वधकारस्य दकारः। स्वर। मध्वत्रेति सिद्धं । एवं मधु+आसनं मध्वासनं ॥
ऋरम्। ऋवौँ रत्वमापद्यते स्वरे परे। पितृ+अर्थः पित्रर्थः। ऋरम् । ऋ (म.ए.) स साङ्केतिकत्वात्सिलोपः ।र(द्वि ०ए०) अमशसो० मोनुस्वारः । प्रवर्णस्य रकारो भवतीत्यर्थः स्वरे परे । पितृ अर्थः । ऋरम् । इसईसः । स्वर० । पित्रर्थः । सूत्रम् ।।
ललम् । लवर्णी लत्वमापद्यते स्वरे परे । ल+अनुबन्धः । लनुबन्धः । ललम् । ल (म. ए.) साङ्केतिकम् । ल (द्वि. ए.) लवर्णस्य लकारो भवति स्वरे परे । ल+ अनुबन्धः । ल लम् । स्वर० । लनुबन्धः । ल लकारोऽनुवन्ध इत्संज्ञको यस्य स लनुबंध उच्यते । सूत्रम् ।
ए अय्। एकारः अय् भवति स्वरे परे । ने अनं नयनम् ।