________________
(२०२ )
सारस्वत प्रथमवृचौ
1
भवति । मातुः स्मरति । मातरं स्मरतीत्यस्मिन्नर्थे । चकाराद्वितीयापि । मातरं स्मरति ।
I
स्मरतौ च कार्ये । स्मरतावर्थे 'स्मृञ् स्मरणे' इति धातुयोगे कार्ये कर्मणि विषये षष्ठी विभक्तिर्भवति । उदाहरणं, मातुः स्मरति । मासुः स्मर्त्तव्यत्वे षष्ठी । चकारात् द्वितीयापि कर्मापि भवति, मातरं स्मरति ।
तृप्त्यर्थानां करणे वा षष्ठी । स्फुटार्थम् । फलैः फलान वा तृप्तः । अद्भिः अपां वा तृप्तः । न लोकाव्ययनिष्ठाखलतनाम् । एषां प्रयोगे षष्ठी न । लादेशाः । कुर्वन कुर्वाणः सृष्टिं हरिः । उ । हरिं दिदृक्षुः, अलंकरिष्णुर्वा । उक् । दैत्यान्यातुको हरिः । अव्ययम् । जगत्सृष्ट्वा । मुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्च हरिणा । तृन् । कर्ता लोकान् । हेतौ तृतीया पञ्चमी च वक्तव्या । अनित्यः शब्दः कृतकत्वे -
न कृतकत्वाद्वा ।
तृप्त्यर्थानां करणे वा षष्ठी । फलैः फलानां वा तृप्तः, अद्भिः अपां वा तृप्तः । शेषं सुगमम् । ताविति । हेतौ साधके तृतीयापञ्चम्यौ भवतः । इह किल प्रतिज्ञाहेतुदृष्टान्तोपनयननिगमनभेदादनुमानस्य पञ्चावयवाः । तत्र पक्षवचनं प्रतिज्ञा, प्रतिज्ञास्थापको हेतुः, यथा पर्वतो वन्हिमान् धूमवत्त्वात् । अयं पर्वतो वन्हि - मान् इति प्रतिज्ञा, सा च धूमवत्त्वादिति हेतुना स्थाप्यते इति तत्र हेताविति द्वितीयानुमानावयवे तृतीया पञ्चमी वा भवति । तत्रोदाहरणं अनित्यः शब्द इति प्रतिज्ञा, कृतकत्वेन कृतकत्वात् इति हेतुस्तत्र तृतीया, विकल्पेन पञ्चमी | हेतुत्वादिति प्रस्तावाच्छेषा अपि त्रयोऽवयवा व्यज्यन्ते । ते चामी, यो यः कृतकः सस अनित्यः । यथा घट इति दृष्टान्तः, कृतकोऽयमित्युपनयः, तस्मादनित्यश्चायमिति निगमनम् ।
'
भयहेतो पञ्चमी चवक्तव्या । चौराद्विभेति । व्याघ्रात्रस्यति । विद्युत्पाताञ्चकितः ।
भयहेताविति । भयस्य कारणे पञ्चमी । भयस्य हेतुर्थः पञ्चपुरुषादिजनित