________________
कारकमक्रिया।
(२०१) कर्वकार्ययोरक्तादौ कृति षष्ठी। कर्तरि कार्यं च षष्ठी विभक्तिर्भवति तादिवर्जितकदन्ते शब्द प्रयुज्यमाने । व्यासस्य कृतिः। व्यासकर्तृका कतिरित्यर्थः । भारतस्य श्रवणम् ।
द्विषः शतुर्वा । शतृप्रत्ययान्तस्य द्विषतेः कर्मणि वा षष्ठी। • षष्ठ्यभावे द्वितीया ।मुरस्य मुरं वा द्विषन् । उभयप्राप्ती कर्म
णि। उभयोः प्राप्तियस्मिन्छति तत्र कर्मण्येव षष्ठो स्यात् । चित्रं गा दोहोऽगोपेन ।
कर्तकार्ययोरिति । कर्त्ताच कार्य च कर्तृकार्ये तयोः ( स. द्वि.)ोसि, एम-ए स्वर० स्रो० अग्रे भक्तादि । क्तमत्यय आदिर्यस्य स कादिः न तादिरतादिः तस्मिन् ( स. ए.) डेरौडित् टिलोपः स्वर० पश्चान्नामिनोरः स्वर० कृत् ( स. ए.) स्वर० अग्ने षष्ठी। षण्णां संख्या पूरणी षष्ठी (म.ए.)हसेपः सिद्धम् । कर्तरीति। मागुक्तलक्षणे प्रधाने क्रियाश्रयेऽर्थे तथा कार्य कर्मणि चार्थे षष्ठी विभक्तिर्भवति । क सति कृदन्त इति । कृत् तृतीयवृत्तिमोक्तः प्रत्ययसमूहः सोऽन्वे यस्य सकृदन्तस्तस्मिन् कृदन्ते शब्दे प्रयुज्यमाने वाच्यमाने सतीति भावः । कयंभूते कवन्ते शब्दे, कादिवजिते तात्ययादिरहिते क्त इत्यादिशब्दात् क क्तवत् ईषदुःसु खल्पू शतृशानौ कमुकानी पूर्वकाले क्त्वा समासे क्यप् नुम् इष्णु स्तुन्कु इत्यादिकत्सत्ययान्तान विहाय अन्येषु कृत्प्रत्ययान्तेषु परेषु सत्सु इत्यर्थः । तत्रोदाहरणं, व्यासस्य कृतिः, व्यासेन क्रियते स्म इति । अत्र व्यासः कृतेः कर्ता । ततः कृतिरिति कृतमत्ययान्ते शब्दे प्रयुज्यमाने व्यासशब्दस्य करि षष्ठी। एवं भारतस्य श्रवणं भारवं शृणोतीति श्रवणमिति युडन्ते कृदन्ते प्रयुक्त भारतस्येति कर्मणि षष्ठी । अत्रोभयत्रापि कुद्योगलक्षणा षष्ठी । अक्कादाविति किम् । त्वया कृतं, ग्राम प्राप्तः । अत्र यपाकम कर्तरि कर्मणि च तृतीया द्वितीया कमत्ययान्तत्वात् । आदिशब्दात् शतृशानकमुकानइष्णुस्नुक्नुक्त्वातुम्क्यप् इत्यायन्तेष्वपि शब्देषु परेषुषष्ठीन भवति।कितु द्वितीयैव । ग्रामं गच्छन्, अन्नं पचमानः, अन्नं पेचिवान्, शुभं चक्राणः, देवं दिहक्षुः, आत्मानमलंकरिष्णुः, दैत्यान् घातुकः, दानवान् निष्णुः, देवं नत्वा, गुरु मणम्य, कार्य कर्तुं, ग्रामं गंतुमुत्कंठित इत्यादीन्युदाहरणान्यवसपानि । 'द्विपः शतुर्वी षष्ठी' मुरस्य मुरं वा द्विषन् ।
स्मरतौ च कार्ये । स्मृत्यर्थे धातो प्रयुज्यमाने च कार्य षष्ठी