________________
(२००) सारस्वसे प्रथमवृत्ती
योगे द्वितीयापि । ज्ञानं ऋते । चकाराद्विनादियोगे तृतीयापञ्चम्यौ स्तः । विना ज्ञानात् । ज्ञानेन विना।
अथ पञ्चमी ऋते इति । ज्ञानात ऋते विना मुक्तिर्न भवतीति शेषः । अत्र ऋते शब्दयोगे ज्ञानात् अत्र पञ्चमी । आदि शब्दात् ग्रहादन्यो विहारो विचरणं विना पृ. थग्योगेऽपि पञ्चमी । विना कान्तात्, पृथक् ग्रामात्, एवं मित्रो ग्रामात्, इतरो प्रामात्, माग प्रामात्, दक्षिणाहि ग्रामात, ग्रहादहिः, भाराद्वामादित्यादि
॥ इति पञ्चमी ॥ यतश्च निर्धारणम् । द्रव्यगुणक्रियाजातिभिः समुदायात्टथक्करणं यतस्तत्र षष्ठी स्यात् । भवतां मध्ये यो दण्डीस आयातु । क्रियापराणां भगवदाराधकः श्रेष्ठः । गवां कष्णा गौः संपन्नक्षीरा । एतेषां क्षत्रियः शूरतमः । इतरमतेऽत्र सप्तम्यपि। स्वाम्यादिमिश्च । स्वाम्यादिभिरपि योगे षष्ठीसप्तम्यौ स्तः । गोधु स्वामी। गवां स्वामी गवामधिपतिः । गोष्वधिपतिः। अथ षष्ठ्यर्थसूचकं निर्धारणमिति निधियते पृथक्रियते अनेनेति निरिणं । काभिः । क्रिया १ गुण २ जातिभिः । क्रिया करणात्मिका गमनस्थानादिका, गुणो छपादिः, जातिः ब्राह्मणादिः। ततः क्रिया च गुणश्च जातिश्च इत्यादिना द्वन्द्वस्वतस्ता. भिः कृत्वा यत् समुदायात् बहूनां समूहात् पृथक्करणम् एकस्य तन्निर्धारणमुच्यते। तत्रार्थे षष्ठीविभक्तिर्भवतीति। तत्रोदाहरणं क्रियासु पराःक्रियासु निष्ठाःतत्परा इत्यर्थस्तेषां मध्ये यो भगवतश्चिदानन्दस्य आराधकः एव श्रेष्ठः मशस्यः । अत्र सामान्यक्रियापरषु भगवदाधारकत्वरूपया क्रियया पृथक्करणे क्रियापरशब्दस्य षष्ठी। गवां धेनूनां मध्ये या कृष्णा गौः सा संपन्नक्षीरा बहुदुग्धा । अत्र गोशब्दस्य कृष्णगुणेन निर्धारणे षष्ठी । एतेषां क्षत्रियः शूरतम इति । एतेषां सर्वजातीनां पुरुपाणां मध्ये क्षत्रियोऽतिशयेन शूरः शूरतमः; अत्र जात्या निर्धारणे पष्ठी व्याकरणेतरमते तु निर्धारणे षष्ठीसप्तम्यौ द्वे अपि भवतः। स्वामित्वे पष्ठीसतम्यौ । स्वामिनो भावः स्वा. मित्वं तस्मिन् स्वामित्वे सप्तमी चकारात पष्ठ्यपि भवति । गोपु स्वामी गवां स्वामी । एवं गोवधिपतिः गवामधिपतिरित्तदपि ज्ञेयम् 'स्वामीश्वराधिपतिदायादसाक्षिम तिभूपविशब्दयोगे षष्ठीसप्तम्यौ भवतः । पुनः षष्ठ्या अर्थान्तरमाह । सूत्रम् ।