________________
कारकाणि ।
(१९९)
अथ तृतीया । तत्र द्रव्यगुणक्रियास्तुल्ययोग्यतायां विद्य मानायां सहाथै तृ तीया विभक्तिर्मवति इति वृद्धाम्नायः । सह शिष्येणैति गुरुः। शिष्येण सह आगनः अत्र आगमनक्रियया शिष्यशब्दस्य गुरुणा नुल्ययोग्यतापां सत्यां तृतीयान्तत्वं, सह पुत्रेण पिता धनी इत्यत्र धनद्रव्येण तुल्पयोगत्वे पुत्रस्य नृतीयान्तत्वं, सहशश्चैत्रो मैत्रेण चैत्रनामाकश्चित् पुरुषो मैत्रेण मैत्रपुरुषेण सशस्तुल्यः, साकं नयनाभ्यामिति नयनाभ्यां साकं सहिता दन्ता श्लक्ष्णा मनोज्ञाः। अत्र गुणेन तुल्यत्वं तृतीया। एवमादिशब्दात् साधुः पुरुषः धनिमिर्धनवद्भिः पुरुषैः सार्द्ध धृतो गृहीतो बद्ध इत्यर्थः । वारणार्थालंयोगे तृतीया । समर्थार्थालंयोगे चतुर्थी इत्यर्थः । एतावताऽलं विवादेन, धर्मेण अर्थः, गुडेन मिश्रा, शस्त्रेण कलहः, कर्मणा विना, पुण्पेन हीनः, इत्यादय आदिशब्दादवसेया। प्रकियामते तुल्यार्थे तृतीयाषष्ट्यौ स्तःकृष्णेन कृष्णस्य वा तुल्यः । यदुक्तं रघुकाव्ये । धृतेश्च धीरः सदृशीय॑धत् ।। इति तृतीया ॥
नमः स्वस्तिस्वाहास्वधालंवषड्योगे चतुर्थी । नमो नारायणाय । स्वस्ति राज्ञे । सोमाय स्वाहा । पितृभ्यः स्वधा। अलं मल्लो मल्लाय । वषट् इन्द्राय ॥ रुच्यर्थानां प्रीयमाणः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः संप्रदानसंज्ञः स्यात् । हरये रोचते भक्तिः। अथ चतुर्थी व्याचष्टे । नम आदियोगे चतुर्थी 'नमः, स्वस्ति, स्वाहा, स्वधालं, वषट् एतेषामन्ययानां योगे चतुर्थी वक्तव्या ' इति सुगमम् । अत्र नमःशब्दो न. मस्कारार्थः, स्वस्ति कल्याणवाचकमव्ययम्, स्वाहेति होमावसरे मन्त्रावसाने अक्षरद्वयात्मकं हव्यवस्तुवाचकम्, स्वधेति पित्यकल्प्यं वस्तु, अलमिति सामर्थाथै, वषट् होतव्यं वस्तु । नमो नारायणायेति नमः शब्दो नमस्कारार्थः, स्वस्ति राज्ञे नृपाय स्वस्ति कल्याणं भवतु । अत्र वस्त्यर्थः, सोमाय चन्द्राय स्वाहा, पितृभ्यः स्व. घा तत्संतानकल्पितं वस्तु । अलमिति । मल्लो मल्लाय अलं समर्थः । इन्द्राय वषट् । होतव्यं वस्तु इत्यादिष्वर्थेषु चतुर्थी ॥ इति चतुर्थी ॥
ऋत आदियोगे पञ्चमी । ऋते अन्यः आरात् इतरः । अञ्चूत्तरपदं दिग्वाचकः शब्दः । आहि आच् एते ऋतआदयः । अन्यशब्देनान्यार्थी गृह्यन्ते । ऋते ज्ञानान्न मुक्तिः । 'अन्यो गृहाद्विहारः । आराहनात् । इतरो ग्रामात् ॥ ऋते