________________
(१९८० सारस्वते प्रथमवृत्तौ
स्ते वा वैकुण्ठं हरिः । अभिनिविशश्च । अभिनीत्येतरसंघातपूर्वस्य विशतेीतोराधारः कर्मसंज्ञः स्यात् । ग्राममभिनिविशते ॥ उपान्वध्याङसः । उपादिपूर्वस्य वसतेराधारः कर्मसंज्ञः स्यात् । आवसथ्यमावसति उपवसति अनुवसति आधिवसति । विनासहति । विना १ सह २ नमः ३ ऋते ४ निर्धारण ५ स्वाम्यादिमि ६ च। ततो विनासह चेत्यादि षट्रस्य द्वन्द्वः। ते आदौ येषां ते तथा तैः(तृ. ब.) खो। च (म. ए. ) अव्य सिद्धम् । एतैविनादिभिरपिशब्दोंगे सति द्वितीयाचाः पड्विभक्तयः पडप्यर्थेषु यथाक्रमं भवन्ति 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति आदिशब्दो विनादिषु प्रत्येक योज्यः। विनादिवाचकशब्दे प्रयुज्यमाने द्वितीयाविभक्तिर्भवतीति । सहादियोगे तृतीया, नम आदियोगे चतुर्थी, ऋते आदियोगे पञ्च. मी, निरिणाद्यर्थे षष्ठी, स्वाम्याद्य सप्तमी । तत्रोदाहरणेन द्वितीयां व्यञ्जयति विना पामिति । पापं विना पापाभावेन सर्वमपिधर्मकृत्यादि फलमावहति । एवं विनार्थे वाच्यमाने विनाशब्दयोगे पापमिति द्वितीया । चकारात्पापेन विना, पापाद्विना इति तृतीयापञ्चम्यावपि । वृद्धत्वं जरसा विना|अक्षिणी नेत्रे अन्तरेण विना जीवितेन किन किमपीति भावः। अक्षिणी इत्यत्र द्वितीयाद्विवचनं नपुंसकान्तम् । अन्तरेत्यादि त्वां माम् अन्तरा मध्ये विचाले मधु क्षौद्रं मचं वा वर्चते, अथवा भीम इत्युक्ते भीमसेनः भामा इत्युक्त सत्यभामा । मधु इत्युक्त मधुसूदनः कृष्ण, त्वां माम् अन्तरा वर्त्तते त्वां,मामिति युष्मदस्मदोद्वितीयैकवचनान्तत्वम्। आदिशब्दादन्तरेण अन्तरा इत्यर्थद्वयेऽपि द्वितीया विभक्तिर्भवति । एतदेवाह इत्यादिपदाद्वाह्यमिति । शेषं सुगमम्। इति इत्युदाहरणद्वयम् आदिपदाद्विनादियोगे द्वितीयत्यादि शब्दाबाह्यमवसेयमिति भावः ॥ इति द्वितीयार्थः।
सहादियोगे तृतीयाऽप्रधाने । सह सदृशं साकं साधं सममिति सहादयः । सह शिष्येणागतो गुरुः । संशश्चैत्रो मैत्रेण । साकं नयनाभ्यां श्लक्ष्णा दन्ताः । साथै धनिना धृतः साधुः । समं शिष्याभ्यामधीते । समं शिष्येण गुरुणा भुज्यते । अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया। दास्या संयच्छते कामुकः । धर्थे तु भार्यायै संयच्छति । वारणार्थयोगे तृतीया । अलं विवादेन ।