________________
कारकाणि ।
(१९७) ण भवम् औपचारिकम् एवं । षड्विधेऽप्यधिकरणे सप्तमी विभक्तिर्भवतीति शेषः। अथ सार्द्धश्लोकेन षडयाधारभेदोदाहरणान्याह। कटे शेते इत्यादि । असौ कुमारः कटे इति कठमुपश्लिष्य शेते इत्यत्र औपश्लेषिकमधिकरणम् । अत्र शयनक्रियाश्रयभूतः कत्ता कुमारः, तदाधारः कटस्तत्रोपश्लेषः । गावो धेनवः वटे इति वटसमीपे शेरवे शयनं कुर्वते इति सामीपिकाधिकरणम् । नहि वटस्योपरि गावः शेरते, किंतु समीपे एव । गडायां घोषः । गङ्गासमीपे घोरो गोकुलम् । तिलेषु तैलं विद्यते विलेषु सर्वानमिव्याप्य स्थितमित्यर्थः । अभिव्यापकमेतदिति । हृदीति। हृदि विषये ब्रह्म परममृतमित्येतद्वैषयिकाधिकरणम् । युद्धे युद्धनिमित्तं धीरः सन्नधते समाहं परिदधाति इति नैमित्तिकम् । करिगां हस्तिनां शतमित्युपचारमात्रत्वादौपचारिकं नतु साक्षाद्वर्त्तमानमिति । इत्थम् आधार व्यारूपायेदानी भावपदस्यार्थमाह | अङ्गुल्पग्रेण प्रदर्शमानमित्यर्थः।
भावे सप्तमी। क्रियालक्षणं भावस्तत्रापि सप्तमी प्रसिद्धक्रियया अप्रसिद्धक्रियाया लक्षणबोधनं भावः।देवे वर्षति चौर आयातः । पतत्यंशुमालिनि पतितोऽरातिः। भावः क्रियालक्षणमिति । क्रिया गमनस्यानोत्यानादिका तस्या यल्लमणं चिन्ह स भाव इति कथ्यते । प्रसिद्धक्रियया कृत्वा प्रसिद्धक्रियाया लक्षणं बोधनं भाव इति तत्रापीति तस्मिन्नर्थेऽपि सप्तमी विभक्तिर्भनति। उदा० देचे मेघे वर्षति सति चौरस्तस्कर आयात आगतः, अत्र मेघवर्षणरूपा क्रिया प्रसिद्धा तया चौरागमनरूपा अप्रसिद्ध क्रिया लक्षिता | देवे मेधे वर्षतीति प्रसिद्धेन मेघवर्षणेन अप्रसिद्धं चौरागमनं लक्ष्यते इति तत्र सप्तमी । राज्ञि मेवे हरे देवः । एवम् अंशुमालिनि सूर्ये पतति सति अस्तंगच्छति अरातिः शत्रुः पतित इति युद्धार्थमागत्य पतित इत्यर्थः । यद्वा, पतितो मृत इत्यर्थः । अत्र प्रसिद्धेन सूर्यास्तमनेनामसिद्ध शत्रोः पतन लक्ष्यते । एवं गुरौ धर्ममुपदिशति शिष्य आगत इत्येवमादयोऽबसेयाः। एवं द्वितीयादिविभकीनामाः । पुनरथ तासाम् उपपदानामर्थान् प्रकारान्तरेणाह । सूत्रम् ।
विनासहनमऋतेनिर्धारणस्वाम्यादिभिश्च । एतैरपि योगे द्वितीयाद्या विभक्तयो भवन्ति । विना पापं सर्व फलति । अन्तरेणाक्षिणी जीवितेन किम् । अन्तरा त्वां मां मध्वित्यादिपदावाह्यम् । अधिशीस्थासां कर्म । अधिपूर्वाणामेपामाधारः कर्मसंज्ञः स्यात्। अधिशेते अधितिष्ठति अध्या