________________
(१९६)
सारस्वते प्रथमवृत्ती हरणं श्लोकेनाह ! राज्ञ इति। स पुरुषः पुमान् राज्ञो राजसंबन्धी ज्ञेय इत्येवं सामिसेवकसंबन्धः । एतत् समीपेतरवनि प्रपूजनं पूजनोपकरणं पूजासामग्री पित्रोरिति माता च पिता च पितरौ तयोः पित्रोः पितृमातृसंबन्धि । गुरुणां गुरुसंबन्धि वचनं जाड्यज्वरविमुक्तानां पथ्यवत्पथ्यतुल्यं हितकारकं । तथ्पम् इति वा पाठः । कवीनां वचो वचनं रसवदिति रसयुक्तं मिष्टम् । एवमन्येऽप्यूह्याः ॥ इति षष्ठी॥
आधारे सप्तमी । आधारो नामाधिकरणम् । षड्डिधमधिकरणम् । औपश्लेषिकं सामीपिकमभिव्यापकं वैषयिकं नैमित्तिकमौपचारिक चेति । औपश्लेषिकं त्रिविधम् । एकदेशवृत्त्यभिव्याप्यवृत्ति व्यस्तवृत्तीति केषां चिन्मतम् । कटे शेते कुमारोऽसौ वटे गावः सुशेरते ॥ तिलेषु विद्यते तैलं हदि ब्रह्मामृतं परम् ॥ युद्धे संनह्यते धीरोऽङ्गल्यग्रे करिणां शतम् ॥ भूभृत्सु पादपाः सन्ति गङ्गायां वरवालुकाः॥ आधारभावयोरिति पदं व्याचिख्यामुः प्रथमम् आधार प्रकटयन्नाह आधारे सप्तमीति । सुगमोऽर्थः । आभियते स्थाप्यते षट् प्रकारा क्रिया अस्मिन्नित्याधारः। क्रियाश्रयस्प कर्तुः क्रियाया आश्रयस्तत्र सप्तमी विभक्तिर्भवति । आधाराधिकरणे एकपयांये आधारशब्देन अधिकरणमेवोच्यते अतोऽधिकरणस्याधारस्य भेदानाह 1 प. ड्रिधमिति। अधिक्रियते आधारतया तदधिकरणं गुणानां गुणिवत् तत् षधिमिति षौदेति । षट्सङ्ख्याका विधाः प्रकारा यस्य तवषद्विषाढेत्यर्थः। वानेव षड्भेदानाह औपश्लैषिकमित्यादि । उप सामीप्येन श्लेषणं संघहनमुपश्लेपः एकदेशमात्रसंयोगो वा उपश्लेषः । यथा कटे शेते कठस्यैकदेशे इत्यर्थः । तेन निवृत्तमौपश्लेषिक, सामीपिकमिति सभीपेन निर्वृत्तं सामीपिकं यदाधेयसमीपमात्रेण क्रियाहेतुः । यथा वटे वटसमीपे गावः मुशेरते। गङ्गायां घोषः। गङ्गासमीपे घोषो ब्रजो गोकुलं वर्चत इति । अभि समतावयाप्नोतीत्यभिव्यापकं आधेयेन समस्तावयवसंयोगोऽभिव्यापकः पिया पृथग्भूतयोराधेयाधारयोर्यः सकलावयवसंबंधः सोऽभिव्यापकः । यथा विलेषु ते. लम् । विपये भवं वैषधिकमतोऽन्यत्र भावो वा विषयः। यथा नभसि तारकाः । आकाशे वायुः । हृदि ब्रह्मेत्यादि । हृदि विषये ब्रह्मैव परं प्रकृष्टम् अमृतं अस्ति, नहि स
वारस्थ परब्रह्मणो हृदयमाचारो भवितुमर्हति किंतु विषयमात्रम् । निमित्वेन भवं नैमिचिकी यया युद्धे युद्धनिमित्तमित्यादि । अविद्यमानस्पारोपणमुपचारः । उपचारे