________________
कारकाणि। .धारः । आधातुं योग्यः आधेय । धावतोऽश्वादपतत् । भू
भृतोऽवतरति गङ्गा ॥ इति पञ्चमी ॥ अथ पञ्चम्ययं व्याविख्यामार्वेश्लेषावधाविति पई व्याकरोति विश्लेष इत्यादि। विश्लेष इत्यस्य कोऽर्थः,विभागो विरहः पृथग्भावः। बुद्धया स्वरूपेण वाएकाश्रयात् पृथग्भवनमित्यर्थः । वन विश्लेषे योऽवधिराश्रयो यस्माद्विभागो जायते स चलतया अश्वकरभादिभावेन अचलतया वा पर्वतशिखरादिभावेन विवक्षितो वनुमिष्टः तत्र विश्लेषावधौ अपादाननामकारके अपादीयते पृथक् क्रियते यस्मात्तदपादानम् अपादानं च तत्कारकं तस्मिन् पञ्चमी विभक्तिर्भवति । उदाहरणम् । धावतोऽश्वा- . दपतदिन्यत्र अपतदिति विश्लेषः । अश्वादिति तस्य अवधिराश्रयः । धावत इत्य स्य चलनक्रियाकारित्वाञ्चलतया विवक्षितावधित्वम् । एवं मूभृतः पर्वताद् गङ्गा अवतरतीत्यत्र अवतरणात्मको विश्लेषः । भूभृत इति स्थिरावधिः । एवमन्येऽप्यवसेयाः।
॥ इति पञ्चमी । संबन्धे षष्ठी। भेद्यभेदकयोः श्लिष्ट संबन्धोऽन्योन्यमुच्यते ॥ द्विष्ठो यद्यपि संबन्धः षष्ठयुत्पत्तिस्तु भेदकात् ॥ भेद्य विशेष्यमित्याहुर्भेदकं तु विशेषणम् ॥ विशेष्यं तु प्रधानं स्यादप्रधानं विशेषणम् ॥ प्रधानाप्रधानयोर्मध्येऽप्रधाने षष्ठी। क्रियान्वयि प्रधानं क्रियानन्वय्यप्रधानम् । राज्ञः स पुरुषो ज्ञेयो पित्रोरेतत्मपूजनम् ॥ गुरूणां वचनं पथ्यं कवीनां रसवद्वचः ॥ सेव्यसेवक्भावसंबन्धः पूज्यपूजकभावसंबन्यों बोध्यबोधक-' भावसंबन्धो, वाच्यवाचकभावसंबन्ध इति संबन्धश्चतुर्विधः।
॥इति षष्ठी॥ अथ षष्टयर्थमाह संबन्ध इति । संबध्यते स्वजनादिरनेनेति संवन्धो जन्यजनकादिः। स्वस्वामित्वादियथा लिङ्गार्थकारकव्यतिरिकस्वस्वामित्वादिलक्षणःसंवन्धः। सचोभयनिष्ठः संभवति । तस्मिन्न षष्ठीविभकिर्भवतीति । यतः, "भेद्य भेदकयो लिटः संबन्धोऽन्योन्यमिप्यते ॥ द्विष्ठो यद्यपि संवन्यः षष्ठयुत्पतिस्तु भेदकात् ।।" उदा